SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ RECIPEARE I . ॥ अथ मत्वर्थीयाः॥ तदस्यास्त्यस्मिमिति मतुः॥७॥२॥१॥ प्रथमान्तात् पष्ठ्यर्थे सप्तम्यर्थे वा मतुः । तत्पथमान्तमस्तीति चेद्भवति अस्ति समानाधिकरणं भवतीत्यर्थः । गोमान् । यवमान् । वृक्षवान् पर्वतः । अस्तिमान् । अस्तीति वर्तमानकालोपादानाद्वर्तमानसत्तायां भवति न भूतभविष्यत्सत्तायां । गावोऽस्यासन् गावोऽस्य भवितार इति । इतिकरणो विवक्षार्थः। तेन भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने संसर्गेऽस्ति विवक्षायां प्रायो मत्वादयो मताः ।। भूम्नि, गोमान्। निन्दायाम, शङ्खोदकी। प्रशंसायाम, रूपवती कन्या । नित्ययोगे, क्षीरिणो वृक्षाः । अतिशायन, उदरिणी कन्या । बलवान् मल्लः । संसर्गे, दण्डी । प्रायिकमेतद्भूमादिदर्शनं सत्तामात्रेऽपि प्रत्ययो दृश्यते। व्याघवान् पर्वतः । तथा मत्वर्थान्मत्वर्थीयः सरूपो न भवति । गोमन्तोऽस्य सन्तीति मतुर्न भवति । विरूपस्तु स्यादेव । दण्डिमती शाला । विरूपोऽपि समानायां वृत्तौ न भवति । दण्ड एषामस्तीति दण्डिनः दण्डिका वा । दण्डिनो दण्डिका वाऽस्य सन्तीति नेन्मत् । शैषिकाच्छेकिको नेष्टः सरूपः प्रत्ययः क्वचित् । समानवृत्तौ मत्वर्थान्मत्वर्थीयोऽपि नेष्यते ।। क्वचिदिति समानायामसमानायां च वृत्तौ । शाली यस्यायं शालीये भवो वेति पुनरीयो न भवति । विरूपस्तु स्यादेव आहिच्छत्रीयः। तथा असंज्ञाभतात्कर्मधारयान्मत्वर्थीयो न भवति । वीरपुरुषा अस्मिन् ग्रामे सन्तीति । अत्र बहुव्रीहेरेव भवति । संज्ञायास्तु भवत्येव । गौरखरवदरण्यकम् । कथमेकगविकः सर्वधनीति । एकादेः कर्मधारयात् इत्याद्यारम्भसामर्थ्याद्भविष्यति । तथा | गुणे गुणिनि च वर्तमानेभ्यो गुणशब्देभ्यो न भवति । शुक्लः पटः । प्रत्ययमन्तरेणापि हि शुक्लादि शब्दानां तदभिधाने सामर्थ्यम् ॥ मावर्णान्तोपान्तापञ्चमवर्गान् मतोर्मों वः ॥२।१।९४ ॥ किंवान् । शमीवान् । वृक्षवान् । मालावान् । अर्वान् । भास्वान् । मरुत्वान् ॥ चर्मण्वत्यष्ठीवचक्रीवत्कक्षीवद्रुमण्वत् ॥२।१।९६॥ एते 999999SASHISHASUSHAN MERCISCIECCAS
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy