________________
तं पचति द्रोणाद्वा ॥। ६ । ४ । १६१ ॥ द्रौणी | द्रौणिकी स्थाली गृहिणी वा ॥ संभवदवहरतोश्च ॥ ६ ॥ ४ । १६२ ॥ द्वितीयान्तात्पचति यथोक्तं प्रत्ययः । आधेयस्य प्रमाणानतिरेकेण धारणं सम्भवः । अतिरेकेणावहारः । प्रास्थिकी स्थाली । पात्राचितादकादीनो वा ॥ ६ | ४ | १६३ ॥ द्वितीयान्तात् पचदाद्यर्थे । पात्रीणा । पात्रिकी । आचतीना । आचितिकी । आढकीना । आढकिकी ॥ द्विगोरीनेकटौ वा ॥। ६ । ४ । १६४ ॥ पात्राचिताढकान्ताद् द्वितीयान्तात्पचदाद्यर्थे । पक्षे इकण् तस्य चानाम्नीत्यादिना लुप् नानयोर्विधानबलात् । द्विपात्रीणा । द्विपात्रिकी । द्विपात्री । द्वयाचितीना । द्वद्याचितिकी । ट्र्याचिता । द्वयाढकीना । द्वयाढकिकी । ट्र्याढकी ॥ कुलिजाद्वा लुप् च ।। ६ । ४ । १६५ ॥ द्विगोद्वितीयान्तात्पचदाचर्थे ईनेकटौ वा । पक्षे इकण् तस्य च वा लुप् । द्विकुलिजीना । द्विकुलिजिकी । द्विकुलिजी । द्वैकुलिजिकी । अन्ये तु लुव विकल्पं न मन्यन्ते ॥ वंशादेर्भाराडरद्वहदायहत्सु ।। ६ । ४ । १६६ ॥ वंशादेः परो यो भारस्तदन्ताद् द्वितीयान्तादेष्वर्थेषु यथोक्तं प्रत्ययः । वांशभारिकः । कौभारिकः । भारादिति किम ! | वंशं इरतिः । अपरोऽर्थो भारभूतेभ्यो वंशादिभ्यो द्वितीयान्तेभ्यो हरदादिष्वर्थेषु यथोक्तं प्रत्ययः । वांशिकः । कौटिकः । वाल्वजिकः । भारादिति किम ! । एकं वंश हरति ॥ द्रव्यवस्नात्केकम् ॥ ६ । ४ । १६७ ।। द्वितीयान्ताद्धरत्याद्यर्थे यथासंख्यम् । द्रव्यकः । वस्निकः ॥ सोऽस्य भृतिवस्नांशम् ॥ ६ । ४ । १६८ ।। यथाविहितं प्रत्ययः । पश्चकः कर्मकरः पटोग्रामो वा साहस्रः ॥ मानम् ।। ६ । ४ । १६९ ॥ प्रथमान्तात्षष्ठयर्थे यथोक्तं प्रत्ययः स्यन्तं चेन्मानम् । द्रौणिकः । खारीको राशिः । मानसंवत्सरेत्यादौ संवत्सरग्रहणात् ॥ कालो न मानग्रहणेन गृह्यते । तेन मासोमानमस्येत्यादौ न प्रत्ययः ॥ जीवितस्य सन् । ६ । ४ । १७० ॥ जीवितमानात्यन्तात्यर्थे यथोक्तं प्रत्ययस्तस्य च न लुप् । पाष्टिकः । द्विषाष्टिको ना । वृत्तौ वर्षशब्दलोपात्षष्ठयादयो rofaneri भवन्ति । यथा शतायुर्वै पुरुष इति । मानमित्यनेनैव सिद्धे प्रास्थिक इत्यादौ व्रीह्मादय एव मेयास्त एव च