SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा ॥५७॥ कर 8 स्विता । अधिचक्रे न यं हरिः । सोहुमशक्तः सन तेन न्यक्रियते स्म । प्रसहन इत्येव । तमधिकरोति ॥ दीप्तिज्ञान-15) यत्नविमत्युपसंभाषोपमन्त्रणे वदः ॥३।३।७८॥ गम्यमाने कर्तर्यात्मनेपदम् । दीप्तिर्भासनम् । सा च कत विशेषणम् । अथवा बदनसहचारिणी केवलैव वा धात्वर्थः। वदते स्यावाटे । दीप्यमानो वदति । बदन् दीप्यते कण्हवा. वा । दीप्यत इत्येव वार्थः । ज्ञानमवबोधः। तच्च वदिक्रियाया हेतुर्वा विषयि वा फलं वा केवलमेव वा धात्वर्थः । वदते तत्त्वार्थे । ज्ञात्वा वदतीति । जानाति वदिमिति वा । वदन् जानातीति वा । जानातीत्येव वार्थः । यत्न उत्सा- टपकरणम् हः । स च धात्वर्थस्य विषयो धात्वर्थ एवं वा । श्रुने वदते । तद्विषयमुत्साई वाचाविष्करोति तत्रोत्सहते वा। नाना मतिर्विमतिः । सा च धात्वर्थस्य हेतुर्धात्वर्थ एव वा । धर्म विवदन्ते । विमतिपूर्वकं विचित्रं भाषन्ते । विविध मन्यन्त इति वा । उपसम्भाषोपसान्त्वनमुपालम्भो वा । कर्मकरानुपवदते । उपसान्त्वयति उपालभते वेत्यर्थः। उपमन्त्रण रहसि उपच्छन्दनम् । परदारानुपवदते । रहस्युपलोभयतीत्यर्थः ॥ व्यक्तवाचा सहोतो ॥३॥३॥ ७९ ॥ मनुष्यादीनां सम्भूयोचारणे बदः कर्तर्यात्मनेपदम् । सम्पवदन्ते ग्राम्याः । सम्प्रवदन्ते पिशाचाः । व्यक्तवाचामिति किम् ? । सम्भवदन्ति कुक्कुटाः । सम्प्रवदन्ति शुकाः। शुकसारिकादीनामपि व्यक्तवाक्त्वात्सहोक्ताविच्छन्त्यन्ये । सहोक्ताविति किम् ? । चैत्रेणोक्ते मैत्रो बदति ॥ विवादे वा ॥३।३।८०॥ विवादरूपायां व्यक्तवाचां सहोक्तौ बदः कर्त र्यात्मनेपदम् । विप्रवदन्ते विप्रवदन्ति वा मौहूर्ताः। परस्परप्रतिषेधेन युगपद् विरुद्धं वदन्तीत्यर्थः । विवाद इति किम्? । विप्रवदन्ते वैयाकरणाः । सह वदन्तीत्यर्थः। व्यक्तवाचामित्येव । संपवदन्ति शकुनयः । नाना रुतं कुर्वन्ति जातिशक्तिभेदात । सहोक्तावित्येव । मौहों मौहृतेन सह क्रमेण विप्रवदति ॥ अनोः कर्मण्यसति ॥३३ ॥ व्यक्तवाचा सम्बन्धिन्यथै बदः कर्यात्मनेपदप । अनुबदते चैत्रो मैत्रस्य । अनुवदते आचार्यस्य शिष्यः । अनुः म सादृश्ये पवादर्थे वा । कर्मण्यसतीति किम् ? । उक्तमनुवदति । व्यक्तवाचामित्येव । अनुबदति वीणा । वाचिकपटिको ॥५७॥ । व्यपरस्परमतिपः ॥ विवादरूपासिहोक्ताविक
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy