________________
उणादय
प्रक०
१४९
4.0+
पांक रक्षणे इत्यस्मात् डिदुम्सुः प्रत्ययो भवति । पुमान् पुरुषः । पुमांसौ । पुमांसः । उकार उदित्कार्यार्थः ॥ न्यु. भ्यामञ्चेः ककाकैसष्टावच ॥ १००३ ॥ न्युद्भ्यां परादञ्च गतौ चेत्यस्मात् कित: अ आ ऐम् इत्येते प्रत्यया भवन्ति ते च टावत् । टायामिव एषु कार्य भवतीत्यर्थः । तेन ' अच्च प्राग्दीश्च' इति भवति । नीचम् उच्चम् । नीचा उच्चा। नीचैः उच्चैः। प्रसिद्धार्था एने । लाघवाथै सन्ताधिकारेऽपि अकाराकारपत्ययविधानम् ॥ शमो नियो डैस् मलुक् च ॥१००४ ॥ शम्पूर्वात् णीय प्रापणे इत्यस्मात् डिदस् प्रत्ययो भवति शमो मकारस्य च लग् भवति । शनैः मन्दम् ॥ यमिदमिभ्यां डोम् ॥१००५ ॥ आभ्यां डिदोस् प्रत्ययो भवति । य उपरमे ॥ योविषयसुखम् । दमच उपशमे । दोर्वाहुः ॥ अनसो वहेः क्विप् सच डः ॥ १००६ ॥ अनसूश्चन्दपूर्वोत् वहीं प्रापणे इत्यस्मात् क्विप् प्रत्ययः सकारस्य च हो भवति । अनो वहति अनड्वान् वृषभः ।। १००६ ।।
43HEORMANAGD-**-NED**444 *449 */*-4402010
* ॥ इति श्रीतपागच्छाचार्यविजयदेवसरिविजयसिंहसरिपट्टपरम्पराप्रतिष्ठितगीतार्थत्वा 2. दिगुणोपेतवृद्धिचन्द्रापरनामवृद्धिविजयचरणकमलमिलिन्दायमानान्तेवासिसंविग्नशाखीयतपोगच्छाचार्यश्रीविजयनेमिसूरिविरचितायां वृहद्धेमप्रभायां
पूर्वकृदन्ताः समाप्ताः ॥ HED**4GDONE-HED***4400204-465 *-440*ch
%