SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ हेमप्रभा ११४१। पकरणयोः । कुणारुः वनस्पतिः ॥ श्यः शीत च ॥ ८१६ ॥ श्यैङ् गतावित्यस्मादारुः प्रत्ययोऽस्य च शीत इत्यादेशो भवति । शीतारः शीतासहः लत्वे, शीवालुः ॥ तुम्बेरुरुः ॥ ८१७ ॥ तुबु अर्दने इत्यस्मादुरुः प्रत्ययो भवति । तुम्बुरुः गन्धर्वः गन्धद्रव्यं च ॥ कन्देः कुन्दु च ।। ८१८ ॥ कदु रोदनाह्नानयोरित्यस्मारुः प्रत्ययोsस्य च कृन्दित्यादेशो भवति । कुन्दुरुः सल्लकीनिर्यासः ॥ चमेरूरुः ॥ ८१९ ॥ चमू अदने इत्यस्मादूरुः प्रत्ययो भवति । चमूरुः चित्रकः ॥ शीङो लुः ॥ ८२० ॥ शीकू स्वप्ने इत्यस्माल्लुः प्रत्ययो भवति । शेलुः श्लेष्मानकः ॥ पीङः कित् ॥ ८२१ पी पाने इत्यस्मात् कितु लुः प्रत्ययो भवति । पीलुः इस्ती वृक्षच ॥ लस्जीशिलेरालुः || ८२२ ।। एभ्य आलुः प्रत्ययो भवति । ओ लस्जैति व्रोडे । लज्जालुः लज्जनशोलः । इये ईयर्थः । ईर्ष्यालुः ईष्याशीलः । शल गतौ । शलालुः वृक्षावयवः ॥ आपोऽप् च । ८२३ ।। आप्लंट् व्याप्तावित्यस्मादालुः प्रत्ययोऽस्य चापू इत्यादेशो भवति । अपालुः वायुः ॥ गूहलुगुग्गुलुकमण्डलवः ॥ एने आलुपत्ययान्ता निपात्यन्ते । गूहते स्वश्च प्रत्ययादेः । गूहलुः ऋषिः गुरू शब्दे । अस्यादिर्गुग् लोपश्च प्रत्ययादेः । गुग्गुलुः वृक्षविशेषः अश्वश्व कप पूर्वादनितेऽन्तः ह्रस्वश्च प्रत्ययादेः । कमण्डलुः अमत्रम् ||प्रः शुः ॥ ८२५ ॥ पृश् पालनपूरणयोरित्यस्मात् शुः प्रत्ययो भवति । पशुः वह्निवं वक्रास्थि || मस्जोष्यशिभ्यः सुक्र ।। ८२६ || एभ्यः किन सुः प्र त्ययो भवति । टु मस्जत् शुद्धौ । ' मस्जेः सः ' इति नोऽन्तः । मङ्क्षुः मुनिः । इषशू आभीक्ष्णये । इक्षुः गुडादिप्रकृतिः । अशौटि व्याप्तौ । अक्षुः समुद्रः वमश्च ॥ पलिमलेरक्षुः || ८२७ || एभ्योऽक्षुः प्रत्ययो भवति । तृ प्लवनतरणयोः । तरक्षुः श्वापदविशेषः । पल गतौ, मळि धारणे । पलक्षुः मलक्षुष वृक्षः ॥ उलेः कितु ॥ ८२८ ॥ उल दाहे इत्यस्मात् सौत्रात् दिक्षुः प्रत्ययो भवति । उलक्षुः तृणजातिः ॥ कृषिचमित निधन्यन्दिसर्जिखजिंभ उणादय 볶 ॥१४९॥
SR No.022988
Book TitleHemprabha Vyakaranam
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherUnknown
Publication Year
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy