________________
पादपानां भयं वातः पद्यानां शिशिरो भयम्। पर्वतानां भयं वज्रः साधूनां दुर्जनो भयम् ॥ तस्मात्स्वविषये रक्षा कर्तव्या भूतिमिच्छता। यज्ञैर्नावाप्यते स्वर्गो रक्षणात्प्राप्यते यथा ॥ यथा फलानां पक्वानां नान्यत्र पतनाद्भयम् । एवं नरस्य जातस्य नान्यत्र मरणाद्भयम् ॥ न भीतो मरणादस्मि केवलं दूषितं यशः । विशुद्धस्य हि में मृत्युः पुत्रजन्मसमः किल ॥ अपापानां कुले जाते मयि पापं न विद्यते । यदि संभाव्यते पापमपापेन च किं मया ॥ अर्थमनर्थं भावय नित्यं नास्ति ततः सुखलेशः सत्यम् । पुत्रादपि धनभाजां भीतिः सर्वत्रैषा विहिता रीतिः। का तव कान्ता कस्ते पुत्रः संसारोऽयमतीव विचित्रः । कस्य त्वं वा कुत आयातस्तत्त्वं चिन्तय तदिदं भ्रातः । शत्रौ मित्रे पुत्रे बन्धौ मा करु यत्नं विग्रहसंधौ । भव समचितः सर्वत्र त्वं वाञ्छस्यचिराद्यदि सत्तत्त्वम् ॥
महता पुण्यपुण्येन क्रीतेयं कायनौस्त्वया ।
पारं दुःखोदधेर्गन्तुं तर यावन भिद्यते ॥ धैर्यं यस्य पिता क्षमा च जननी शान्तिश्चिरं गेहिनी सत्यं सूनुरयं दया च भगिनी भ्राता मनःसंयमः । शय्या भूमितलं दिशोऽपि वसनं ज्ञानामृतं भोजनमेते यस्य कुटुम्बिनो वद सखे कस्माद् भयं योगिनः ॥
विपदि धैर्यमथाभ्युदये क्षमा सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ
प्रकृतिसिद्धमिदं हि महात्मनाम् ॥ आलस्यं हि मनुष्याणां शरीरस्थो महारिपुः ।
नास्त्युद्यमसमो बन्धुःकृत्वा च नावसीदति ॥ ( સુબોધ સંસ્કૃતમાર્ગોપદેશિકા ( ૧૫૦ હ992 સુભાષિત સંદોહ )