SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ( ५८ ) श्रीलघुहेमप्रभाव्याकरणम्. धियादित्यन्ये । दीर्घे सति उपसर्गात्परस्येणोऽभावान्न हस्वः। अभीयात् । ईइण इति प्रश्लेषः किम् ? समेयात् । समीयादिति तु भौवादिकस्य । वीं क प्रजनकान्त्यसनखादने च । १७ ॥ वेति । इह ईक इति प्रश्लेषः । एति । इतः । इयन्ति । ईयात् । ऐषीत् । थुंक् अभिगमने । १८ ।। उत और्विति व्यञ्जनेऽद्वेः ॥ ४ । ३ । ५९ ॥ धातोः प्रत्यये ।। द्यौति । द्युतः । ध्रुवन्ति । पुंक् प्रसवैश्वर्ययोः । |१९|| सौति । सुषाव । तुंक् वृत्तिहिंसापूरणेषु । २० ॥ यङ्तुरुस्तोर्बहुलम् ॥ ४ । ३ । ६४ ॥ अद्वेर्व्यञ्जनादौ विति ईत् परादिः ॥ तवीति । तौति । तुतः । तुवन्ति । युक् मिश्रणे । २१ ॥ यौति । अयावीत् । णुक् स्तुतौ । २२ ॥ नौति । अन्ये तु युग् णुग् भ्याम् व्यञ्जनादौ विति शिति इतमपीच्छन्ति । यवीति । नवीति । केचित्तु तुतः तुवीतः । तुयात् तुवीयात् इति सर्वत्र ईत् इत्याहुः । अनावीत् । क्ष्णुक् तेजने । २३ ॥ स्नुक् प्रस्रवणे ।२४॥ दुक्षु रु कुंक् शब्दे ॥ २५॥ क्षौति । अक्षावीत् । रौति । रवीति । अरावीत् । अकौषीत् । रुदृक् अश्रुविमोचने । २६ ॥ रुत्पञ्चकाच्छिदयः ॥ ४ । ४ । ८८ ॥ व्यञ्जनादेरादिरिट् । रोदिति । रुदितः । रुदन्ति । रुद्यात् । रोदितु ।। दिस्योरीट् ॥ ४ । ४ । ८९ ॥ रुत्पञ्चकाच्छितोरादिः ॥ अरोदीत् । पक्षेऽदवाडित्यडागमे । अरोदत् । अरुदिताम् । अरुदन् । अरोदीत् । अरुदत् । रुरोद |
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy