SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ उत्तरकृदन्तप्रकरणम्. (२५३) किम् ? । उपसारो भृत्यै राज्ञाम् ॥ पणेाने ॥ ५। ३। ३२॥ भावाकारल् ॥ मूलकपणः । मान इति किम् ? । पाणः ॥ सम्मदप्रमदौ हर्षे ॥ ५।३। ३३ ॥ भावाकोरलन्तौ स्याताम् ॥ सम्मदः प्रमदो वा स्त्रीणाम् । हर्ष इति किम ? । सम्मादः॥ हनोन्तघनान्तर्घणौ देशे ॥ ५। ३ । ३४॥ निपात्येते ॥ अन्तर्घनः, अन्तर्षणो वा देशः । अन्तर्घातोऽन्यः ॥ प्रघणप्रघाणौ गृहांशे ॥ ५। ३ । ३५ ॥ निपात्येते ॥ प्रघणः, प्रघाणो वा द्वारालिन्दकः । प्रघातोऽन्यः ॥ निघोद्घसङ्घोद्घनापधनोपन्नं निमितप्रशस्तगणात्याधानाङ्गासन्नम् ॥ ५। ३ । ३६ ॥ हन्तेः कृतघत्वावलन्तं निपात्यते ॥ समन्ततो मितं निमितम् । निघा वृक्षाः । उद्घः प्रशस्तः। सङ्घः प्राणिसमूहः । अत्याधीयन्ते छेदनाथ कुटनार्थ वा काष्ठादीनि यत्र तदत्याधानम् । उद्घनः। अपघनः शरीरावयवः । उपन्न आसन्नः ॥ मूर्तिनिचिताभ्रे घनः ॥ ५।३। ३७ ॥ हन्तेनिपात्यते ॥ मूर्तिः काठिन्यम् । अभ्रस्य घनः । निचितं निरन्तरम् । घनाः केशाः । अभ्रं मेघः । घनः ।। व्ययोद्रोः करणे ॥ ५।३।३८॥ हन्तेरल घनादेशश्च ॥ विघनः । अयोधनः । द्रुधनः ॥ स्तम्बाद्नश्च ॥ ५।३। ३९ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy