SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. विहाराहारसंहार-प्रहारमतिहारवत् ॥१॥ किञ्च-धात्वर्थ बाधते कश्चित्, कश्चित्तमनुवर्तते । तमेव विशिनष्टयन्योऽनर्थकोऽन्यः प्रयुज्यते ॥१॥ बीजकालेषु सम्बद्धा यथा लाक्षारसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥२॥ बुद्धिस्थादपि सम्बन्धात्तथा धातूपसर्गयोः । अभ्यन्तरीकृतो भेदः पदकाले प्रकाश्यते ॥ ३ ॥ पां पाने । अनुस्वारानुबन्ध इणनिषेधार्थः। अत्रेमे धातुमत्ययानुबन्धफलप्रतिपादकाः श्लोकाः॥ उच्चारणेऽस्त्यवर्णाद्य आः क्तयोरिणनिषेधने । इकारादात्मनेपद-मीकाराच्चोभयं भवेत् ॥१॥ उदितः स्वरानोन्तश्चोः क्तादाविटो विकल्पनम् । रुपान्त्ये डे परेऽहस्व ऋकारादविकल्पकः ॥२॥ लकारादड्समायात्यः सिचि वृद्धिनिषेधकः । ए: क्तयोरिनिषेधः स्यादोःक्तयोस्तस्य नो भवेत्॥३॥ औकार इड्विकल्पार्थेऽनुस्वारोऽनिविशेषणे । लकारश्च विसर्गश्चानुषन्धो भवतो नहि ॥४॥ कोदादिन गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणरोधे ङ-श्चो दिवादिगणो भवेत् । जो वृद्धौ वर्तमाने क्तः टः स्वादिष्ठधुकारकः ॥६॥ त्रिमगर्थो डकारः स्याण णश्चुरादिश्च वृद्धिकृत् ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy