SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ( १५४ ) श्रीलघुहेमप्रभाव्याकरणम्. यदि गुरूनुपासिष्यते, शास्त्रान्तं गमिष्यति । वत्र्त्स्यतीति किम् ? । दक्षिणेन चेद्याति न शकटं पर्याभवति ॥ कामोक्तावकच्चिति ।। ५ । ४ । २६ ॥ या सप्तमी । कामो मे भुञ्जीत भवान् । अकञ्चितीति किम् ? | कचिज्जीवति मे माता ॥ इच्छार्थे सप्तमीपञ्चम्यौ ॥ ५ । ४ । २७ ॥ धातावुपपदे कामोक्तौ गम्यायाम् ॥ इच्छमि भुञ्जीत, भुङ्कां वा भवान् । इच्छार्थे कर्मणः सप्तमी ॥ ५ । ४ । २९ ॥ धातावुपपदे तुल्यकर्तृकार्थाद्धातोः । भुञ्जीयेतीच्छति । इच्छार्थ इति किम् ?। भोजको याति । कर्मण इति किम् ? । इच्छन् करोति ॥ सप्तमी चोर्ध्वमहर्त्तिके ॥ ५ । ४ । ३० ॥ I मेषादिषु गम्येषु वर्त्तमानाद्धातोः कृत्यपश्चम्यौ । ऊर्ध्व मुहूतत्कटं कुर्याद्भवान् । भवता कटः कार्यः । कटं करोतु भवान् । भवान् हि प्रेषितोऽनुज्ञातः । भवतोऽवसरः कटकरणे ॥ स्मे पञ्चमी ॥ ५ । ४ । ३१ ॥ उपपदे मैषादिषु गम्येषु ऊर्ध्वमौहूर्तिकार्थाडातोः ॥ ऊर्ध्वं मुहुतद् भवान् कटं करोतु स्म । भवान् हि प्रेषितोऽनुज्ञातो भवतोऽवसरः कटकरणे ॥ अधीष्टौ ॥ ५ । ४ । ३२ ॥ स्मे उपदे गम्यायां पञ्चमी ॥ अङ्ग स्म विद्वन्नणुव्रतानि रक्ष || सप्तमी यदि ॥ ५ । ४ । ३४ ॥ कालवेला समयेषूपपदेषु || कालो यदधीयीत भवान् । वेला यद् भुञ्जीत । समयो यच्छयीत । शक्ता कृत्याश्च ।। ५ । ४ । ३५ ॥
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy