SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ आख्यातप्रकरणम्. ( १५१ ) कालस्यानहोरात्राणाम् ॥ ५ । ४ । ७ ॥ कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्यैवार्वाग्भागे य एष्यनर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न, न चेत्सोऽवग्भागोऽहोरात्राम् ॥ योऽयमागामी संवत्सरः तस्य यदवरमाग्रहायण्यास्तत्र जिनपूजां करिष्यामः । अनहोरात्राणामिति किम् ? | योऽयं मास आगामी तस्य योsवरः पञ्चदशरात्रस्तत्र युक्ता द्विध्येतास्महे || परे वा ॥ ५ । ४ । ८॥ कालस्य योsवधिस्तद्वाचिन्युपपदे कालस्यैव भागेऽनहोरात्रसम्वन्धिनि य एष्यन्नर्थस्तद्वृत्तेर्धातोरनद्यतनविहितः प्रत्ययो न ॥ आगामिनो वत्सरस्याग्रहायण्याः परस्तात् द्विः सूत्रमध्येष्यामहे । अध्येतास्महे वा ॥ भूते ॥ ५ । ४ । १० ॥ धातोः क्रियातिपत्तौ सत्यां सप्तम्यर्थे क्रियातिपत्तिः ॥ दृष्टो मया तव पुत्रोऽन्नार्थी चङ्क्रम्यमाणः, अपरश्रातिथ्यर्थी, यदि स तेन दृष्टोऽभविष्यदुताभोक्ष्यत, अप्यभोक्ष्यत ॥ वोतात्प्राक् ॥ ५ । ४ । ११ ॥ सप्तम्युताप्योर्बाद इत्यत्र यदुतशब्दसङ्कीर्त्तनं ततः प्राकू सप्तम्यर्थे क्रियातिपत्तौ भूतार्थाद्धातोर्वा क्रियातिपत्तिः ॥ कथं नाम संयतः सन्ननागाढे तत्रभवानाधाय कृतमसेविष्यत, धिग्गहमिहे । पक्षे कथं सेवेत, कथं सेवते, धिग्गहमिहे । उतात्मागिति किम् । कालो यदभोक्ष्यत भवान् । क्षेपेऽपिजावोर्त्तमाना ॥ ५ । ४ । १२ ॥ गम्ये उपपदयोर्धातोः ॥ अपि तत्रभवान् जन्तून् हिनस्ति । जातु तत्रभवान् भूतानि हिनस्ति, धिग्गमहे ॥ .
SR No.022970
Book TitleLaghu Hemprabhaya Uttararddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages416
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy