SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ ( ७४ ) श्रीलघुहेमप्रभाव्याकरणम्. मासयाता । अकृताधन्तादित्येव । कुण्डकृता । पत्युनः ॥२।४।४८॥ बहुव्रीहेः पत्यन्ताव स्त्रियां कीर्वा तद्योगेऽन्तस्य नश्च ॥ दृढपर्व । हपतिः । मुख्यादित्येव । बहुस्थूलपतिः पुरी ॥ सादेः ॥ २।४। ४९ ॥ पत्युः स्त्रियां डीर्वा तद्योगेऽन्तस्य नश्च ॥ ग्रामपत्नी । ग्रामपतिः। सादेः किम् ? । पतिरियम् । ग्रामस्य पतिरियम् । मुख्यादित्येव । अतिपतिः । गौणादपीच्छन्त्यन्ये । सपत्न्यादौ ॥ २।४ । ५०॥ पत्युः स्त्रियां डीनश्चान्तस्य ॥ सपत्नी। ऊढायाम् ॥ २ । ४ । ५१ ॥ पत्युर्डीः स्त्रियां नश्चान्तस्य ॥ पत्नी ॥ पाणिगृहीतीति ॥ २।४ । ५२ ॥ पाणिगृहीतीप्रकाराः शब्दा ऊढायां निपात्यन्ते॥ पाणिगृहीती। करगृहीती । ऊढायां किम् ? । पाणिगृहीता ॥ पतिवन्यन्तर्वल्यौ भार्यागभिण्योः ॥२४॥५३॥ निपात्येते ॥ पतिवत्नी । अन्तर्वत्नी । भार्येति किम् ? । पतिमती पृथ्वी । गर्भिणीति किम् ? । अन्तरस्यां शालायामस्ति । जातेरयान्तनित्यस्त्रीशूद्रात् ॥ २।४ । ५४ । अदन्तात् स्त्रियां कीः ॥ जातिः काचित् संस्थानव्यङ्ग्या । तटी। सकृदुपदेशव्यग्यत्वे सति अत्रिलिङ्गान्या। ब्राह्मणी। सत्यन्तं किम् ? । देवदत्ता। विशेष्यं किम् ? । शुक्ला । गोत्रचरणलक्षणा
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy