________________
व्यञ्जनान्ताः पुल्लिङ्गाः
घुटि ॥ १ । ४ । ६८ ॥ निमित्तविशेषोपादानं विनाssपादपरिसमाप्तेर्यत् कार्यं वक्ष्यते
तघुटि वेदितव्यम् ||
अचः ॥ १ । ४ । ६९ ॥
धुढन्तस्याश्चतेर्धातोस्तदतत्सम्बन्धिनि घुटि धुरः प्राग् नोऽन्तः ॥ युजञ्चक्रुञ्चो नो ङः ॥ २ । १ । ७१ ॥ पदान्ते ॥ प्राङ् । पाचौ ॥
( ४५ )
अच्च प्राग्दीर्घश्च ॥ २ । १ । १०४ ।। णिक्यद्युवर्जिते यकारादौ स्वरादौ च प्रत्यये ॥ प्राचः । प्राग्भ्याम् । प्राक्षु | हे माङ् । एवं प्रत्यङ् । प्रतीचः । अन्वाचयशिष्टस्वाद् दीर्घत्वस्य तदभावेऽपि चादेशो भवति । दृषच्चः ॥
उदच उदीच् ॥ २ । १ । १०३ ॥
णिक्यघुड्वर्जे यकारादौ स्वरादौ च । उदीचः । उदग्भ्याम् ।। सहसमः सप्रिसमि ॥ ३ । २ । १२३ ॥ किवन्तौ । सहाञ्चतीति सध्यङ् । समञ्चतीति सम्यङ् । समीचः ॥
तिरसस्तिर्यति ॥ ३ । २ । १२४ ॥
क्विबन्तेऽञ्चतौ । तिर्यङ् । तिर्यञ्चौ । तिरः । तिर्यग्भ्याम् || सर्वादिविष्वग्देवाद्रिः कयञ्च ॥ ३ । २ । १२२ ॥
-अन्तः ॥ अदवङ् ॥
वाऽद्रौ ॥ २ । १ । ४६॥
अन्तेऽदसो दस्य मः ॥