SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ( १८२ ) श्रीलघुहेमप्रभाव्याकरणम्. युवार्थस्य लुप् ॥ औदुम्बरिः । औदुम्बरायणः ॥ अब्राह्मणात् । ६ । १ । १४१ ।। वृद्धप्रत्ययान्ताद्यु॒वार्थस्य लुप् ।। आङ्गः पिता । आङ्गः पुत्रः । अब्राह्मणादिति किम् ? । गार्ग्यः पिता । गार्ग्यायणः पुत्रः || पैलादेः ॥ ६ । १ । १४२ ॥ यूनि प्रत्यस्य लुप् || पैलः पिता पुत्रश्च । शालङ्गिः पिता पुत्रश्च ॥ प्राच्ये ऽञोऽतौल्वल्यादेः || ६ | १ | १४३ ॥ यूनि प्रत्ययस्य लुप् ॥ पान्नागारिः पिता पुत्रश्च । मान्थरषेणिः पिता पुत्रश्च ॥ प्राच्य इति किम् ? । दाक्षिः पिता । दाक्षायणः पुत्रः ॥ तौल्वल्यादिवर्जनं किम् ? । तौल्वलिः पिता । तौल्बलायनः पुत्रः ॥ 1 ॥ इत्यपत्याधिकारः ॥ ॥ अथ रक्ताद्यर्थकाः ॥ रागा रक्ते । ६ । २ । १॥ रज्यते येन कुसुम्भादिना तदर्थात्तृतीयान्ताद्रक्तमित्यर्थे यथाविहितं प्रत्ययः । कौसुम्भं वासः ॥ लाक्षारोचनादिकण् ॥ ६ ॥ २ । २ ॥ टान्ताद्रक्ते । लाक्षिकम् । रौचनिकम् ॥ शकलकर्दमाद् वा ।। ६ । २ । ३ ॥ टान्ताद्रक्त इण् । शाकलिकम | शाकलम् । कार्दमिकम् । कार्दमम् ॥ नीलपीतादकम् || ६ । २ । ४॥ टान्ताद्रक्ते यथासंख्यम् | नीलम् । पीतकम् ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy