SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ( १७० ) श्रीलघुमभाव्याकरणम्. वृद्धे ॥ नाडायनः । चारायणः | आमुष्यायणः ॥ दण्डहस्तिनोरायने ॥ ७ । ४ । ४५ ॥ अन्त्यस्वरादेर्लुग् न ॥ दाण्डिनायनः ॥ हास्तिनायनः ॥ यञिञः ॥। ६ । १ । ५४ ॥ वृद्धे यून्यायनम् ॥ गार्ग्यायणः । दाक्षायणः ॥ हरितादेरञः ॥। ६ । १ । ५५ ॥ विदाद्यन्तर्गणो हरितादिः ॥ वृद्धे योऽम् तदन्ताद्यून्यायनन् । हारितायनः । कैन्दासायनः ॥ क्रोष्टुशलङ्कोर्लुक् च ॥ ६ | १ | ५६ ॥ वृद्धे आयनण् ॥ क्रोष्टायनः । शालङ्कायनः ॥ दर्भकृष्णाग्निशर्मरणशरद्वच्छुनकादाग्रायणब्राह्मणवार्षगग्यवाशिष्ठभार्गववात्स्ये ।। ६ । १ । ५७ ॥ वृद्धे यथासंख्यमायनणू || दार्भायण आग्रायणः । कार्ष्णायनो ब्राह्मणः । आग्निशर्मायणी वार्षगण्यः । राणायनो वाशिष्टः । शारदतायनो भार्गवः । शौनकायनो वात्स्यः ॥ जीवन्तपर्वताद्वा ॥ ६ । १ । ५८ ॥ वृद्धे आयनण् ॥ जैवन्तायनः । जैवन्तिः । पार्वतायनः । पार्श्वतिः ॥ द्रोणाद्वा ।। ६ । १ । ५९ ॥ अपत्यमात्रे आयन || द्रौणायनः । द्रौणिः ॥ शिवादेरण || ६ । १ । ६० ॥ अपत्ये ॥ शैवः । प्रौष्टः ॥ ऋषिवृष्ण्यन्धककुरुभ्यः ॥ ६ । १ । ६१ ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy