SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ ( १६४ ) श्रीलघुहेमप्रभाव्याकरणम्. प्राग्वतः स्त्रीपुंसाद् नञस्नञ् ॥ ६ । १ । २५ ॥ येऽर्थास्तेष्वनिदम्यणपवादे च ॥ स्त्रैणम् । पौंस्त्रम् । प्राग्वत इति किम् ? | स्त्रीवत् ॥ त्वे वा ॥ ६ । १ । २६ ॥ स्त्रीपुंसाभ्यां नवस्त्रौ । स्त्रैणम् । स्त्रीत्वम् । स्त्रीता । पौंस्त्रम् । पुंस्त्वम् । पुंस्ता || गोः स्वरे यः ॥ ६ । १ । २७ ॥ गव्यम् । गव्यः । स्वर इति किम ? । गोमयम् ॥ सोऽपत्ये ॥ ६ । १ । २८ ॥ यथाभिहितमणादयः ॥ अस्वयम्भुवोऽव ॥ ७ । ४ । ७० ।। उवर्णान्तस्यापदस्य तडिते । औपगवः । औपगवी ॥ आद्यात् । ६ । १ । २९ ॥ अपत्ये यस्तद्धितः स परमप्रकृतेरेव । पौत्राद्यपत्यं सर्वपूर्वजानामा परमप्रकृतेः पारंपर्येण संबन्धादपत्यं भवतीति अनन्तरवृद्धयुवभ्योऽपि प्रत्ययः प्राप्नोतीति नियमार्थ आरम्भः । उपगोरपत्यमनन्तरं वृद्धं वा औपगवः । तस्यापि औपगवः । औपगवेरपि औपगवः || पौत्रादि वृद्धम् || ६ । १ । २ ॥ परमप्रकृतेरपत्यम् ॥ गार्ग्यः । पौत्रादीति किम् ? । गार्गिः ॥ वंश्यज्यायोभ्रात्रोजीवति प्रपौत्राद्यस्त्री युवा ||६||१|३|| वंश्यः पित्रादिरात्मनः कारणम् । ज्यायान् भ्राता वयोधिक एक पितृकः एकमातृको वा । गार्ग्यायणः । अस्त्रीति किम् ? । गार्गी ॥
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy