________________
समासप्रकर
( १५१ )
चत्वारिंशदादौ वा ॥ ३ । २ । ९३ ॥
द्वित्र्यष्टानां प्राक्शतादुत्तरपदे द्वात्रयोऽष्टा आदेशा वाऽनशीतिबहुव्रीहौ ॥ द्वाचत्वारिंशत् । द्विचत्वारिंशत् । त्रयश्चत्वारिंशत् । त्रिचत्वारिंशत् । अष्टाचत्वारिंशत् । अष्टचत्वारिंशत् ॥
हृदयस्य हृल्लासलेखाप्ये ॥ ३ । २ । ९४ ॥ हल्लासः । हृल्लेखः । हार्दम् । हृद्यः ॥
पद: पादस्याज्यातिगोपहते ॥ ३ । २ । ९५ ॥ पदाजिः । पदातिः । अत एव निर्देशादजेवीं न । पदगः । पदोपहतः ॥
हिमहतिकाषिये पद् ॥ ३ । २ । ९६ ॥
हिमादिषूत्तरपदेषु पादसम्बन्धिनि ये च पादस्य ।। पंडिमम् । पद्धतिः । पत्काषी । पद्याः शर्कराः ॥
ऋचः श्शसि ॥ ३ । २ । ९७ ॥
पादस्य पत् ।। गायत्रीं पच्छः शंसति । ऋच इति किम् ? | पादशः श्लोकं वक्ति । द्विःशकारपाठात् ऋचः पादान् पश्येत्यत्र न ॥ शब्दनिष्कघोषमिश्रे वा ॥ ३ । २ । ९८ ॥
पादस्य पत् ।। पच्छब्दः । पादशब्दः । पनिष्कः । पादनिकः । पद्धोषः । पादघोषः । पन्मिश्रः । पादमिश्रः ॥
नस् नासिकायास्तःक्षुद्रे ॥ ३ । २ । ९९ ॥
नस्तः । नःक्षुद्रः ॥
उदकस्योदः प्रेषंधिवासवाहने ॥ ३ । २ । १०४ ॥ उदपेषं पिनष्टि । उदभिर्घटः । उदवासः । उदवाहनः ॥