SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ ( १३४ ) श्रीलघुहेमभाव्याकरणम्. महतः करघासविशिष्टे डाः ॥ ३ । २ । ६८ ॥ wwww वोत्तरपदे । महाकरः । महत्करः । महाघासः । महद्वासः । महाविशिष्टः । महद्विशिष्टः ॥ महतः करादावुत्तरपदे नित्यं डाः महाविशिष्टः ॥ स्त्रियाम् || ३ । २ । ६९ ॥ wwwwwwwwwwwwww महाकरः । महाघासः । जातीयैकार्थेऽच्वेः ॥ ३ । २ । ७० ॥ महत उत्तरपदे डाः । महाजातीयः । महावीरः । जातीयैकार्थे इति किम् ? | महत्तरः | अच्छेरिति किम् ? | महद्भूता कन्या ॥ न पुंवन्निषेधे ॥ ३ । २ । ७१ ॥ महत उत्तरपदे डाः । महतीप्रियः । इभ्रूणां छाया इक्षुच्छायमित्यादिषु लिङ्गविशेषव्यवस्था तु लिङ्गानुशासनादवसेया ॥ ॥ इति तत्पुरुषः ॥ ॥ अथ द्वन्द्वः ॥ चार्थे द्वन्द्वः सहोक्तौ ॥ ३ । १ । ११७ ॥ नाम नाम्ना । समुच्चयान्वाचयेतरेतरयोगसमाहाराश्चत्वारश्चार्थाः । तत्रैकमर्थं प्रति ह्यादीनां क्रियाकारकद्रव्यगुणानां तुल्यबलानामविरोविनामनियतक्रमयौगपद्यानामात्मरूपभेदेन चीयमानता समुच्चयः । चैत्रः पचति पठति च । गुणप्रधानभावमात्रविशिष्टः समुच्चय एवान्वाचयः । बटो भिक्षामट गां चानय । द्रव्याणामेव परस्परसव्यपेक्षाणामुद्भूतावयवभेदः समूह इतरेतरयोगः । चैत्रश्व मैत्रव घटं कुर्वते । स एव तिरोहितावयवभेदः संहतिप्रधानः समाहारः । धवश्व खदिरश्च पलाशच तिष्ठति । तत्राद्ययोर्न समासः सहोत्तत्यभा
SR No.022969
Book TitleLaghu Hemprabhaya Purvarddha
Original Sutra AuthorN/A
AuthorVijaynemsuri
PublisherJain Granth Prakashak Sabha
Publication Year1921
Total Pages398
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy