SearchBrowseAboutContactDonate
Page Preview
Page 435
Loading...
Download File
Download File
Page Text
________________ ३२६ परिशिष्ट (७) १३ धात्वीयपंचतीर्थीगतपंचजिनस्तवन. (सं. द्रुतविलंबितवृत्त) कनककेतककेसरदीधिति, मिलितमुक्तिमहासुखसन्ततिम् । विदितविश्वपति विगतानृतं, नमत नाभिभवं नयनामृतम् ॥ १॥ सुमुखगोमुखयक्षवरेण यः, समनुसेवित आदिमतीर्थपः। दमदयापर कामकलाऽजितः, शिवरमां ददतात्स वृषाङ्कितः ॥२॥ मृदुमृगांकमहाभवभीतिभिद्-गगननीरधिचापतिनुस्सवित् । कलकुमारककांच(न)लकांतिजित् , विजयतां जिनशांतित्रिकालवित् ॥ ३॥ सकलसद्गुणरत्नकरण्डकं, भवमहोदधितारतरण्डकम् । सपदि वारितवादवितण्डकं, स्मरत शान्तिजिनेशमचंडकम् ॥४॥ विगतविस्तरघामविरामकं, मुखकलाजिततापनधामकम् । नतसुरासुरशङ्करनामकं, विधनमार्जनताकृतकामकम् ॥ ५॥ घनघनाघनकजलकासितं, परमकेवलभावविभासितम् । नमितनिर्जरराजनरेश्वरं, भजत सुन्दर! नेमिजिनेश्वरम् ॥ ६॥ सकलमंगलमूलमपापकं, विदलिताखिलकर्मकलापकम् । वरविभाभरभासुरभालकं, प्रणत पार्श्वपतिं परपालकम् ॥७॥ तव दिनेश ! दिनेशसमाकृति-जनितलोकसुकोकचमत्कृतिः । रुचिररोचिकलापकलाधृतिः, कृतकुबोधतमोहरणादृतिः ॥ ८॥ मथितमन्मथमन्थुरसङ्कथं, जरितजन्मजरामरणव्यथम् । सबलसजितसंयमसद्रथं, विनुत वीरजिनं धृतसत्पथम् ॥९॥ तरुणतप्तहिरण्यसमत्विषं, दरितरत्यरतिप्रभृतिद्विषम् । विकटसङ्कटकोटिपरामुखं, हृदि विधत्त जिनं विलसत्सुखम् ॥१०॥ इति जगद्गुरुपञ्चकसंस्तव-स्सविनयं 'जिनचन्द्र' कृतस्तवः । सुकविचित्तकृतानघसम्मदः, प्रतनुतात् सुखसन्ततिसम्पदः ॥११॥ इति श्रीधात्वीयपञ्चतीर्थीगतजिनपञ्चकस्तवनम् ।
SR No.022908
Book TitleYugpradhan Jinchandrasuri
Original Sutra AuthorN/A
AuthorAgarchand Nahta, Bhanvarlal Nahta
PublisherPaydhuni Mahavirswami Jain Derasar
Publication Year1962
Total Pages440
LanguageGujarati
ClassificationBook_Gujarati
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy