SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ aai वसति दाता हि श्रेष्ठी कुसुमसारकः । परिवारेण संयुक्तः विख्यातः क्षितिमण्डले ॥ २१ ॥ जनवजेषु कल्पः द्रव्येण धनदोपनः । धर्मकर्मविधौ दक्षः रूपेण रतिवल्लभः ॥ २२ ॥ तस्मास्ति रमणी रम्या स्वयंप्रभाभिधा शुभा । केलीवत्कोमलाङ्गी च कलाकलापधारिका ॥ २३ ॥ विराजते मुखं तस्या विकखरकजप्रभम् । सहन्तनयनैर्युक्तमर्चितं जनदृक्कजैः ॥ २४ ॥ तस्याः कुक्षौ समुत्पन्नो मृगाङ्को मृगनेत्रजित् । गत्या तर्जितमचेभो वक्रेण यामिनीपतिः ॥ २५ ॥ वृद्धिं प्राप कुमारोऽसौ यावदेवाष्टवार्षिकः । मुक्तः पित्रा गुरूपान्ते कलाग्रहणहेतवे ॥ २६ ॥ यतः - माता शत्रुः पिता वैरी येन बालो न पाठितः । न शोभते सभामध्ये हंसमध्ये बको यथा ॥ २७ ॥ लालयेत् पञ्च वर्षाणि अष्ट वर्षाणि पाठयेत् । प्राप्ते तु षोडशे वर्षे, पुत्रं मित्रं समाचरेत् ॥ २८ ॥ अथ तत्रैव नगरे धनञ्जयो महर्द्धिकः । वसति प्रमदा तस्य प्रिया धनवती शुभा ॥ २९ ॥ तयोः पुत्री गुणश्रेणिः पद्मावती कजेक्षणा । तद्दिने सापि मुक्ता च पठनाय निरालसा ॥ ३० ॥ पद्मावतीमृगाङ्कौ तौ कलाभ्यासं प्रकुर्वतः । क्षीरनीरनिभा नित्यमासीत्प्रीतिस्तयोर्मिथः ॥ ३१ ॥ यतः - "पथ पानी उपर मिले अंतर मिलो नहीर । किं उमराल नीरह तजी किं उगही पीइ सुषीर ॥ ३२ ॥ पीरवारि प्रीति अति इह जानत सब कोय । करत जुदाई इंसबल वलर्थि कहा न होय" १ ॥ ३३ ॥
SR No.022765
Book TitleMrugank Charitram
Original Sutra AuthorN/A
AuthorRuddhichandra Yati
PublisherNirnaysagar Mudranalay
Publication Year1917
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy