SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ शून्यसद्मनि निर्वस्त्रं स्थातव्यं त्वयकाऽधुना । त्वां यदा कथयिष्येऽहं गन्धनीयेयमद्धता ॥१६५॥ स नायिकां गृहे क्षिप्त्वा कपाटं दत्तवान् ततः । पश्चात्सर्वाणि वस्तूनि मुषित्वा तस्करोऽवदत् ॥ १६६ ॥ गन्धख गुटिकां वृद्धे ! इत्युक्त्वा तस्करो ययौ । सापि वारत्रयं मूलीगन्धिताऽभूच रासभी ॥ १६७ ॥ प्रातःकालो यदा जातस्तदा दासी समागता । वृद्धां च रासभी दृष्ट्वा गत्वा राजे न्यवेदयत् ॥ १६८॥ तच्छुत्वा सुभटाः सर्वे तस्मिन्पुरेऽपि हारिताः। तद् बीडकं हि केनापि चौरभीत्या च नादृतम् ॥ १६९॥ चिन्तितमिति चौरेण कस्मिन् सुवासरे हृदि । अथानयामि भूपस्य पुत्रीमतीव सुन्दराम् ॥ १७० ॥ मध्यरात्रौ समागत्य गृहीता नृपनन्दनी । गत्वा खसदने मुक्ता पुत्रीमतीव सुन्दराम् ॥ १७१॥ प्रातस्तस्या गृहे चेटी समायाता शुभानना । नो दृष्ट्वा तत्र तां बाला-मित्यवोचन्नृपान्तिके ॥ १७२ ॥ खपुत्रीहरणं ज्ञात्वा पटहोद्घोषणं कृतम् । यो ह्यानयति मत्पुत्रीं लभते तां सलक्ष्मीकाम् ॥ १७३॥ सहसाङ्केन तं श्रुत्वा गृहीतः पटहस्ततः । नृपते ! स्मर जिनाधीश-मागच्छति यथा सुता ॥ १७४॥ पुनरूचे नृपस्याग्रे सहसाङ्कः खबुद्धिना। चौरस्य बन्धनं कृत्वा-ऽऽनेष्यामि हि तवात्मजाम् ॥ १७५॥ यतः यस्य बुद्धिर्बलं तस्य निर्बुद्धेस्तु कुतो बलम् । वने सिंहो मदोन्मत्तः शशकेन निपातितः॥१७६ ॥ उद्यमः साहसं धैर्य बलं बुद्धि-पराक्रमम् । षडेते यस्य विद्यन्ते, तस्य देवोऽपि शङ्कते ॥ १७७॥
SR No.022765
Book TitleMrugank Charitram
Original Sutra AuthorN/A
AuthorRuddhichandra Yati
PublisherNirnaysagar Mudranalay
Publication Year1917
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy