SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ चरित्रम्. मृगांक॥६॥ SARALASAMACHAR शब्दनीतिलसत्काव्य-शास्त्रछन्दांसि भूरिशः । एतानि सर्वशास्त्राणि पाठयैतान् ममाज्ञया ॥ १३४ ॥ यतः-विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः।। विद्या बन्धुजनो विदेशगमने विद्या परा देवता, विद्या राजसु पूज्यते नहि धनं विद्याविहीनः पशुः॥१३५॥ उवाच सहसाङ्कोऽसौ नरब्रह्ममिति स्फुटम् । एतेषां पाठनकृते मन्दिरं मे समर्पय ॥ १३६॥ राज्ञा तस्मै गृहं दत्तं तस्थिवान् सोऽपि निर्भयः। कुमारान् पाठयामास तान् सर्वान् हि निरन्तरम् ॥१३७॥ छन्दोऽलङ्कारसङ्गीतगूढार्थन्यायनीतयः। एतानि सर्वशास्त्राणि पेठुस्ते च विशेषतः॥१३८॥ कलासु कुशलाः सर्वे जाताः स्तोकदिनैरपि । राज्ञोऽग्रे सहसाङ्केन मुक्तास्तेऽपि च बालकाः ॥ १३९ ॥ तान् कुमारान् नृपेणोक्तं परीक्षार्थमिति ध्रुवम् । दर्शयन्तु विनोदं भोः ! पुत्राः! शास्त्रस्य मत्पुरः ॥ १४०॥ एक एकं प्रत्युवाच किं जीविअस्स चिंधं का भजा होइ मयणरायस्स ? किं पुप्फाण पहाणं ? परिणीआ किं कुणइ बाला ? ॥ १४१॥ अपरेणोत्तरं दत्तमिति-सासरइजाई'। पुनः द्वितीयेनोक्तम्१ क्रमेण-श्वासः, रतिः, जातिः, समुदायेन चतुर्थप्रश्नस्योतरं भाषायां 'सासरे जाय' । ॥६ ॥
SR No.022765
Book TitleMrugank Charitram
Original Sutra AuthorN/A
AuthorRuddhichandra Yati
PublisherNirnaysagar Mudranalay
Publication Year1917
Total Pages26
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy