________________
मृगावती
| कोपले ॥४४॥ न मे वासवदत्ताया, अनुरागोऽस्य संमतः। एतेन मम काणेति, कथितेयं किमन्यथा || चरित्रम् |॥ ४५ ॥ यावदेतस्य नोदेति, शत्रुभावोचिता मतिः। तावत्केनाप्युपायेन, स्वदेशंप्रति गम्यते ॥४६॥ तदेदं चिंतयन्नेष, जल्पितो राजकन्यया । आश्चर्यमार्यपुत्रेदं, गवाक्षेण निरीक्ष्यतां ॥४७॥ असौ । कुवेषो वर्षीयान्, उन्मत्तो नृत्यति द्विजः । स्वैरं गायति गीतं च, वैपरीत्यमहो विधेः ॥४८॥ ऊर्ध्वमालोकयन्नावां, कथमश्रूणि मुंचति । गोतनृत्यवदेषापि, काप्यस्योन्मत्तता नवा ॥ १९ ॥
अथ पृथ्वीपतिस्तस्या, वाक्यादालोक्य तं द्विजं । चिंतयामास किमसौ, न स्याद्यौगंधरायणः | ॥५०॥ येनाभवद्विपत्पंक-मग्नं मामस्य पश्यतः । स्वच्छंदमुच्छलबाष्प-पिच्छलं नेत्रयुग्मकं ॥५१॥ तातवत्सलमालोक्य, चिरकालान्ममाप्यमुं । उत्कंठामांसलैः कंठो, बाष्पपरैरैपूर्यत ॥ ५२ ॥ इति || चिंतापरे राज्ञि, सोऽग्रजन्मागतो ययौ । चित्रकपात्रमेकत्र, दृश्यंते तादृशाः कुतः ॥ ५३ ॥ प्रविश्य तस्यां शालाया-मुत्कंठाभरनिर्भरः। सोऽकस्माद्वत्सराजस्य, तस्थो बद्धांजलिः पुरः ॥ ५४ ॥ आनंदानयनांभोज-शृंगारमुखनिर्गतैः । अभ्यषिंचदिवांभोभिः, स भृशं भक्तिवल्लरीं ॥ ५५ ॥ नरनाथस्त
HODOWoo.
॥८८॥