SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ मृगावतो ॥५५ ॥ अपराभिः पुरंधीभिर्मया कामः कदर्थितः । इदानीं त्वनया तन्व्या । प्रत्युज्जीवतु सर्वथा ॥२८॥ विकल्प्यैवं स्वयं शिक्षां दत्वा दूतशिरोमणिः । लोहजंघोऽतिजंघालः, कौशांब्यां प्रेषि भूभुजा ॥ २९ ॥ H आतस्थिवांसमास्थान- मिंद्रास्थानसहोदरं । दूतः स वेगादागत्य, शतानीकमभाषत ॥ ३० ॥ ऊर्वी - पतिरवंतीशः, कौशांबीश मुखेन मे । भवंतमादिशत्येवं । सावधानोऽवधारय ॥ ३१ ॥ राजते तेजसा तावद्, ग्रहतारासितांशवः । सर्वतेजखिनां राजा, यावत्संसहते रविः ॥ ३२ ॥ उत्पन्नरुचिरादत्ते, तेभ्यस्तेजो निजं यदा । समं तेन तदा तेषां कोऽपि किं कलहायते ||३३|| तेजांसीव सहस्रांशोः, कौशांबीपरमेश्वरः । रक्षति हंत रत्नानि रत्नगर्भोद्भवानि मे ॥ ३४ ॥ अस्ति सीमंतिनीरलं, प्रिया तव मृगावती । संसेहे तव भोगार्थ – मियत्कालमियं मया ॥३५॥ प्रस्थापयेथास्तदिमा — मिदानीं नीरजेक्षणां । गृह्णाति चेद्धनं स्वामी, गोपालः किमु रुष्यति ॥ ३६ ॥ इत्यादिष्टो नरेंद्रेण, राजन्नर्थः समर्थ्यतां । नीतिरप्यनुजानाति, दारैरप्यात्मरक्षणं ॥ ३७ ॥ अथावज्ञा ममाज्ञाया – मकालज्ञतया तव । तन्मामागतमीक्षेथा, रणाय प्रगुणो भव ॥३८॥ इत्युक्त्वा विर 24 चरित्रम् ॥ ५५॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy