SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ मृगावती ॥ १२४ ॥ विहाय किं हंसी, रमते सुमते कचित् ॥ ७९ ॥ एतद्धि प्रतिमामात्रं, न दोषायेतिवादिनी । पटं पद्मावती तस्या - स्ततः स्नेहाददर्शयत् ॥ ८० ॥ अधार्यपुत्र चित्रेऽपि दिष्ट्या दृष्टश्चिरान्मया । चिंतयंतोति सापश्यतं पटं सांद्रया दृशा ।। ८१ ॥ बहिः स्थितोऽथ राजान - मवोचत वसंतकः । आकर्णितमिदं देव, सख्योरन्योऽन्यजल्पितं ॥ ८२ ॥ अभ्यर्चयसि नाभेयं, भक्त्या त्वं त्वामियं पुनः । इदं सद्यो ददौ तुभ्य -मभीष्टं विष्टपाधिपः ॥ ८३ ॥ नृपोऽभाषिष्ट भोः संति, वत्सराजाः सहस्रशः । बहुशो नामसाम्येन, प्रतायंते भवादृशाः || ४ || कथाभिरथवा स्त्रीणां कृतं नो ब्रह्मचारिणां । सांध्याया विधये याम, इति यावद् यियासति ॥ ८५ ॥ चित्राकारसमाकारं, नृपमालोक्य विस्मयात् । पृष्टो वसंत कः कोऽय – मिति चंपकमालया ॥ ८६ ॥ युग्मं ॥ नर्ममंत्री ततोऽवादी - दसावुदयनो नृपः । यं तव स्वामिनी चित्ते, प्रणिधले दिवानिशं ॥ ८७ ॥ मध्ये वेगेन गत्वाथ, सा जगाद नृपात्मजां । अपूर्वावतिथी प्राप्ती, कावण्यातिथ्यमर्हतः ॥ ८८ ॥ ततः सुता महाबाहो - गर्भगेहाद्विनिर्यती । आह प्रद्योतजामेहि, क्रिय चरित्रम् ॥ १२४ ॥
SR No.022762
Book TitleMrugavati Charitram
Original Sutra AuthorN/A
AuthorDevprabhsuri Maldhari
PublisherVithalji Hiralal Lalan
Publication Year1929
Total Pages172
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy