________________
मृगावती
॥१९८॥
| वनवासमुपेयुषी । सात्र केनापि कामेन, तप्यते दुस्तपं तपः ॥ १२ ॥ तदस्मत्स्वामिनी सेयं, त्रिसंध्यं शुद्धमानसा । कुसुमैरसमैरेभिः, कुरुते देवतार्चनं ॥ १३ ॥ अहं चंपकमालेति, सखी तस्या | मनःसमा । इति सा कथयंत्येव, केनाप्याहूयतान्यतः ॥ १४ ॥ त्वमप्यतिथिरस्माकं, भवेरार्य कदा. चन । एवमामंत्रयंती मां, सा ययौ त्वरितैः पदैः ॥ १५ ॥ देवः को नाम नाभेय-प्रभोरन्योऽत्र | पूज्यते । यदेतन्न मया ज्ञातं, तत्तु चित्ते दुनोति मां ॥१६॥ तदाकाद्भुतं भूप-स्तयुतस्तद्ययौ | वनं । तत्रापश्यच्च कैलास-सुंदरं देवमंदिरं ॥ १७ ॥ स तं प्रासादमुत्तुंग-मारुरोह कुतूहलात् । विशंस्तु गर्भगेहांत-रूचे चंपकमालया ॥ १८ ॥ अत्रैव स्थीयतामत्र, भवद्भिरिति वादिनीं । द्वारदेशस्थितामाह, तां सहासं वसंतकः ॥ १९ ॥ भद्रे त्वयेच्छमातिथ्य-मतिथीनां वितन्यते । प्रवेशेऽपि यदस्माकं, निषेधोऽर्थपदे कृतः ॥ २० ॥ ततः सप्रश्रयं प्राह, सा किमित्यार्य कुप्यसि । देवागारप्रवेशेऽस्मिन्, शृणु वारणकारणं ॥ २१ ॥ वनांतर्दिवसे तस्मिन्, पुष्पाण्युच्चेतुमागतां । वार्त्तयंती | त्वयास्माकं, स्वामिनी मामजूहवत् ॥ २२ ॥ गताहं च द्रुतं तत्र, देव्याः सविधवर्तिनीं । एकामालो
॥११८॥