SearchBrowseAboutContactDonate
Page Preview
Page 197
Loading...
Download File
Download File
Page Text
________________ ददौ सौख्यलता चन्द्रोद्योतं विद्योतिदिङ्मुखम् । रत्नतोरणसंयुक्तं, हेमच्छवं मनोहरम् ॥८०॥ षट्त्रिंशल्लक्षशृङ्गाररत्नगांगेयमौक्तिकैः ।। | तदा त्वनुपमादेवी, प्रपूज्य ऋषभप्रभुम् ॥८१॥ प्रासादाद् बहिरागत्य, नवीनं पर्यधात्पुनः। तावत्प्रमाणं शृङ्गारं, कट रे पुण्यवि* स्तरम् ।।८२।। तथैव ललितादेवी, कृखा श्रीजिनपूजनम् । पुनः परिदधौ दिव्यमलङ्गार तथाविधम् ॥८३॥ तदानीं भूपलादासी, लक्षमूल्यं च भूषणम् (जरीदकम्) । स्वाङ्गलग्नं मुदोत्तार्य, जिनपूजां व्यधादहो ॥८४॥ वासवोत्सवमाधातुं, द्वितीयस्मिन् दिने पुनः। पुरस्कृती महामात्यो, तेजःपालेन बन्धुना ॥८५॥ धौतवासाः समभ्यर्य, नामेयप्रमुखान् जिनान् । रङ्गमण्डपमायासीन्मा-| लाधारणहेतवे ॥८६॥ युग्मम् ॥ सूरयो नरचन्द्रायाः, सर्वे सङ्घाधिपास्तथा । तदाहूतास्तदाजग्मुः, स्वस्वसङ्घसमन्विताः ॥८७॥ तदा तत्र समादाय, पुष्पमाला || * जगत्पतेः । तयोरदशयंश्चत्यरक्षायामधिकारिणः॥८८॥ चतुर्विंशतिलक्षाणि, द्रम्माणां तत्र मन्त्रिराट् । स्रजो मूल्यममूल्याया, अपि तस्या जगौ तदा ॥८९॥ अन्योन्यं नीयमाने तन्मूल्ये वृद्धिं धनाधिकैः । किमन्ये विस्मयं लेमे, वस्तुपालोपि तत्क्षणे ॥१०॥ अत्रान्तरे समायातस्तत्र पात्रं गुणश्रियः । निदर्शनं दरिद्राणां, घृतविक्रयहेतवे ॥९१॥ टीलाढयस्तदासन्ने, ग्रामे टीमाणके वसन्। श्रीमाली न्यायनिष्ठात्मा, तदा मेलापकेऽलपत् ॥९२॥ गृहीत्वा गृहसर्वस्वमनुग्रहपरा मयि । अर्पयन्तु स्फुरद्भाग्यशाला मालामिमा पुनः॥१३॥ श्रुत्वा तद्वचनं मत्री, पप्रच्छ स्वच्छहत्ततः । कोऽसि खं नु महाभाग!, कियत्खं तेऽस्ति वेश्मनि ॥९४॥ सोऽवदत् सन्ति | मत्रीन्द्र, द्वादश स्फुर्घकानि मे । आज्यविक्रयजातानि, निर्गतान्यधुना गृहे ॥९५॥ तत्प्रसादं परं कृत्वा, कृपणस्योपरि प्रभो!। देहि स्रजं जगद्भर्तुः, शिवश्रीवरणावहाम् ॥९६॥ सिद्धक्षेत्रं समाधिश्च, श्रीसङ्घोऽनघसम्पदः । विशुद्धः प्राक्तनैः पुण्यैः, प्राप्यन्ते
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy