SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ *4888888888%2C38% 3888783%88% | महाव्रतिसहस्रेषु, गुरुरेको जिनेश्वरः । जिनेश्वरसमं पात्रं, न भूतं न भविष्यति ॥ २३ ॥ सहस्रलक्षसङ्ख्यातैर्विशुद्धैः श्रावकैरिह । यत्पुण्यं जायते जन्तोर्मुनिदानं ततोऽधिकम् ||२४|| देशकालागमद्रव्यक्षेत्र दातृमनोगुणाः । सुकृतस्यापि दानस्य, फलातिशयहेतवः ॥ ||२५|| ब्रह्महीने क्रियाभ्रष्टे, दयादमविवर्जिते । गरीयोऽपि भवेद्दानं, प्रायः खल्पफलप्रदम् ||२६|| साधवः परमं पात्रं, द्वितीयं गृहमेधिनः । सम्यग्दृष्टिस्तृतीयं तु, दयार्हाः शेषजन्तवः ॥ २७॥ यतः - उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ । अविरय| सम्मद्दिट्ठी, जहन्नपत्तं मुणेयवं ॥ २८ ॥ इयं मोक्षफले दाने, पात्रापात्रविचारणा । दयादानं तु तत्त्वज्ञैः, कुत्रापि न निषिद्ध्यते ॥२९॥ इत्याकर्ण्य गुरोर्वाणीं, प्रमाणीकृत्य मन्त्रिराट् । जिनेन्द्रधर्मयुक्तानां युक्त्या दानं ददौ सदा ||३०|| ग्रामाणां सप्तके दग्धे, यत्पापं | जायते किल । तत्पापं जायते राजन्भीरस्यागलिते घटे ||३१|| संवत्सरेण यत्पापं, कैवर्तस्येह जायते । एकाहेन तदानोति, अपूतज| लमही ॥ ३२ ॥ यः कुर्यात्सर्वकार्याणि वस्त्रपूतेन वारिणा । स मुनिः स महासाधुः, स योगी स महाव्रती ॥ ३३ ॥ त्रैलोक्यमखिलं दवा, यत्फलं ( प्राप्यते बुधैः) वेदपारगे । ततः कोटिगुणं पुण्यं, वस्त्रपूतेन वारिणा ||३४|| विंशत्यङ्गुलमानं तु, त्रिंशदङ्गुलमायतौ । तद्वत्रं द्विगुणीकृत्य, गालयेजलमापिबन् ||३५|| तस्मिन् वस्त्रे स्थितान् जन्तून्, स्थापयेजलमध्यतः । एवं कृत्वा पिवेत्तोयं, स याति | परमां गतिम् || ३६ || इति निध्याय सर्वेषु, जलस्थानेषु भूतले । अश्वराजात्मजः श्रीमान्, जीवरक्षाविचक्षणः ||३७|| सर्वाङ्गगुण| शालीनि, गलनानि कलेर्गले । पाणि तन्वन्करोतिस्म ( स्थापयामास धर्मात्मा ) जलगालनहेतवे ॥ ३८ ॥ युग्मम् ॥ अथावसरमासाद्य, वृत्तिं सद्वृत्तशालिनौ । पूर्वं कृतोपकारेषु, भट्टसोमेश्वरादिषु ||३९|| भूयोभूमिप्रदानेन, वस्तुमण्डपिकादिषु । विशोपकविधानाच्च, कृतज्ञौ कुरुतःस्म तौ ||४०|| युग्मम् || कविः सोमेश्वरः स्माह, स्तुतिमेवं तयोस्ततः । पुषूपति न को वाचं, कृतज्ञगु *89*%$84888888888888888
SR No.022759
Book TitleVastupal Charitam
Original Sutra AuthorN/A
AuthorJinharshsuri
PublisherDoshi Shantilal Kalidas
Publication Year1941
Total Pages286
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy