________________
रूपसेन
॥ २७ ॥
%%% 46661564
मया त्वं कदा वंचिता ? तदा मालिनी प्राह, भो धूर्त त्वं शृणु ? मयाय तव ग्रंथिश्लोटयित्वा विलोकिता, तदा तन्मध्याद्योगियोग्यवस्तुनि दृष्ट्वा मया त्वत्स्वरूपं ज्ञातं यतो धूर्ता ईदृशा एव स्युः अतस्त्वं त्वन्निवासकृतेऽन्यत्स्थानं गवेषय ? अतः प्रभृति त्वया मद्गृहे नागंतव्यं.
तत् श्रुत्वा कुमारोऽवदत्, अरे मालिनि नूनं त्वं मुग्धासि ? कस्यापि दुर्जनस्य वचने लग्नासि तेन च - कल्पवृक्षं करीरोऽयं । ज्ञात्वेति मां विमुंचसि ॥ राजहंसे स काकोऽयं । कुबुद्धिः कथमीदृशो ॥ ९६॥ भवतु, मम स्थानानि बहून्यपि संति यतः - अयं निजः परो वेति । गणना लघुचेतसां ॥ उदारचरितानां तु । वसुधैव कुटुंबकं ॥ ९७ ॥ ततः कुमारेण मधुरवचसा तस्यै कथितं, हे भगिनि तर्हि तद्वस्तुग्रंथिं त्वं समर्पय ? तत् श्रुत्वा तयोक्तं रे धूर्त मया तु तानि कंथापात्रादीनि वाटके प्रक्षिप्तानि तदा कुमारः प्राह हे मुग्धे कुतस्त्वया तानि मज्जीविततुल्यानि वस्तुनि वाटके क्षिप्तानि ? मया तव किमपराद्धमस्ति ! ततस्तया तानि वस्तुनि वाटकात्समानीय तस्मै समर्पितानि. अथ कुमारेणोक्तं भो भगिनि ! एषां कंथादिवस्तूनां महिमानं त्वं पश्य ? त्वया तु रत्नान्येतानि कर्करधिया प्रक्षिप्तानि कामकुंभस्त्वया मृन्मयो घटो ज्ञातः, प्रवालं गुंजाधिया मुक्तं, परमेषां वस्तूनां महाप्रभावोऽस्ति तत् श्रुत्वा विस्मितया तया प्रोक्तं
७१ वर
चरित्रम्
॥। २७ ॥