________________
तावद् विपन्नदी धोरा, दुस्तरा यावदंगिभिः । नाप्यते सिद्धचक्रस्य, प्रसादविशदा तरी ॥६॥ बद्धा रुद्धा नरास्तावत्, तिष्टन्ति क्लेशवर्तिनः । यावत् स्मरन्ति नो सिद्ध-चक्रस्य विहितादराः ॥७॥
एतत्तपोविधायिन्यो योषितोऽपि विशेषतः । वन्ध्या-निन्द्वादिदोषाणां, प्रयच्छन्ति जलाञ्जलिम् ॥८॥ __ वैकल्यं बालवैधव्यं, दुर्भगत्वं कुरुपताम् । दुर्भगत्वं च दासीत्वं, लभन्ते न कदाचन ॥९॥
यद्यदेवाभिवाञ्छन्ति, जन्तवो भक्तिशालिनः । तत्तदेवाप्नुवन्ति श्री-सिद्धचक्रार्चनोद्यताः ॥१०॥
एतदाराधनात् सम्य-गाराद्वं जिनशासनम् । यतः शासनसर्वस्व-मेतदेव निगद्यते ॥११॥ एभ्यो नवपदेभ्योऽन्य-नास्ति तत्त्वं जिनागमे । ततो नवपदी ज्ञेया, सदा ध्येया च धीधनैः ॥१२॥ ये सिद्धा ये च सेत्स्यन्ति, ये च सिध्यन्ति साम्प्रतम् ।
ते सर्वेऽपि समाराध्य, पदान्येतान्यहर्निशम् ॥१३॥ त्रिधा शुद्धया समाराध्य, मे (चै)षामेकतरं पदम् । भुयांसोऽपि भवन्ति स्म, पदं राज्यादिसम्पदाम् ॥१४॥
अस्याद्यपदमाराध्य, प्राप्ताः स्वामित्वमुत्तमम् । नरेषु देवपालाद्याः, कार्तिकाद्याः सुरेषु च ॥१५॥
द्वितीयपद्माराध्य, ध्यायन्तः पञ्चपाण्डवाः । सिद्धाचले समं कुन्त्या, संप्राप्ताः परमं पदम् ॥१६॥ नास्तिकः कृतपापोऽपि, यत् प्रदेशी सुरोऽभवत् । तदस्यैव तृतीयस्य, पदस्योपकृतं महत् ॥१७॥
चतुर्थपदमस्यैवा-राधयन्तो यथाविधि । धन्याः सूत्रमधीयन्ते, शिष्याः सिंहगिरेरिव ॥१८॥
-604