________________
॥११॥
ચૈત્રત થાધિને માસે ભોભવ્યા મહદાદરા કુર્વત્તા રાધનં તસ્યભવંતુ સ્થિરતાશ્રયા:
ગુરુનામ્ નેમિસૂરીણામ્ પૂજ્યાનાં પ્રસાદતઃ પદ્રસૂરિ પ્રમોદેન સિધ્ધચક્ર સ્તુતિ વ્યધાત્
॥१२॥
||3||
151
(૧૦) શ્રી સિદ્ધચક સ્તોત્ર सुरनरेन्द्रनतांध्रि युतं युतं, त्रिवरणातिशयात्मविभूतिभिः भविकषाय निदाधनिवारकं शुचिगिरा प्रणमामि जिनेश्वरम् ॥॥
सकल विश्व विभावविवर्जितान्, परमनिर्मल तत्वमुपागतान्
अहमनन्तचतुष्टय संयुतान्, शिवकृते हृदि सिध्धविभून दधे ॥2॥ गुरुगुणर्धि गुरुत्वगरीयसे, भुवनभावविभासनभानवे श्रुतबलाजनसंशयभेदिने, जिनसमाय नमो मम सूरये जिनवरागमपारगमर्थयुक्, श्रुतसमर्पण तत्परमर्थिनाम्
ऋजुगिरं चरणादिगुणाग्चितं, नमत वाचकमादरतो जनाः ॥4॥ सकलपाप निबन्धननिवृत्ता, उपशमामृत शान्तहृदोऽमदाः समिति संयमधर्मरताः शिवं, ददतु मे मुनयः प्रतिवासरम्
सुगुरुदेवसुधर्मजिनोदितं, सकलभाव रुचित्वमयं मम
कलशमादिभवं शुचिदर्शनं, भवतु मुक्तिसुरवाय गुणालयम् ॥6॥ स्वपरबोधकरी सुखदायिनी, चरण हेतुरकृत्यनिवर्तिनी सकलभावविकाशन कारिणी, हरतु संविदगम्यतमो मम ॥7॥
निरिवलपापविरामवदेनसां, भवकलापकृतां चय रिक्तकृत्
सुरनरादिसुस्वार्पण तत्परं, भवतु सचरणं शरणं मम निचितकर्मचयेन्धन पावकं, परमलब्धि समृद्धि समर्पकं, सकलमड्गल मजुल मन्दिरं, निजसुखाय सदास्तु शुभं तपः ॥७॥ नवपद शुचिमन्त्रं सिद्धचक्रारव्य यन्त्र, भजति जपति भक्त्या यः सं हत्वारिवर्गम, इह जगति विशाले ऋद्धिकीर्तिच लब्ध्वा व्रजति कुशलतो द्राक् सिद्धिशर्माणि वीरः
-250
॥8॥
॥10॥