SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ ૧૨૧ ઉપમિતિભવપ્રપંચા કથા ભાગ-૬ | પંચમ પ્રસ્તાવ यस्तु लोके सुदुःखार्ते, सुखं भुङ्क्ते निराकुलः । प्रभुत्वं हि कुतस्तस्य? कुक्षिभरिरसौ मतः ।।८।। लोार्थ :નિબંધ લોકને કરીને, અખિલ લોકને સુખમાં સ્થાપન કરીને જે સ્વયં સુખ ઈચ્છે છે તે રાજા પ્રભુ કહેવાય છે. વળી, સુદુઃખથી આર્ત લોકમાં ઘણાં દુઃખોથી આર્ત એવા લોકમાં, નિરાકુળ એવો જે સુખને ભોગવે છે તેનું પ્રભુપણું ક્યાંથી હોય? આ સ્વાર્થી એવો રાજા, કુક્ષિભરી પેટને भरनारो, मनायो छे. ||७८-८०|| दुःखिसत्त्वान्वेषणम् तदिदमत्र प्राप्तकालं वर्तते, तावदेष संतापिताशेषभूमण्डलो ग्रीष्मसमयः, ततोऽहमत्रैव मनोनन्दनाभिधाने गृहोपवने युक्तो बन्धुवर्गेण, परिवृतो मित्रवृन्देन, सेवमानो धर्मसमयोचितां राजलीलां, संपादयामि ताताम्बयोः सम्बन्धिनमादेशं, केवलं नियुज्यन्तां राजपुरुषा ये सर्वं दुःखदौर्गत्योपहतं लोकं गवेषयित्वा समानीय च मया सार्धं सुखमनुभावयन्तीति । एतच्चाकर्ण्य प्रहृष्टो धवलराजः प्रमुदिता कमलसुन्दरी, ततोऽभिहितमाभ्यां-साधु वत्स! गुरुवत्सल! साधु चारु जल्पितं वत्सेन, युक्तमिदमीदृशमेव भवतो विवेकस्येति, ततस्तत्र मनोनन्दने गृहोपवने सज्जीकारितमतिविशालं नरेन्द्रेण हिमगृहं, तच्चाच्छादितं निरन्तरं नलिनीदलैः, समन्तादुपगढं मरकतहरितैः, कदलीवनैवेष्टितं, सततवाहिन्या कर्परपूरितोदकप्रवाहया गृहनद्या, विलेपितं मलयजकर्पूरक्षोदगार्या, कृतविभागमुशीरमृणालनालकल्पितैभित्तिभागैः । ततस्तत्र तादृशे ग्रीष्मसन्तापहारिणि शिशिरसुखोत्कम्पकारिणि महति हिमभवने विरचितानि शिशिरपल्लवशयनानि, कल्पितानि शिशिरसुखदमृदून्यासनानि प्रवेशितः सह लोकसमूहेन विमलकुमारः, ततः समस्तेनापि जनसमुदयेन सहित एव विलिप्तः सरसचन्दनेन, गुण्डितः कर्पूररेणुना, मालितः सुरभिपाटलादामभिर्विराजितो मल्लिकाकुसुमस्तबकैरालिङ्गितः स्थूलमुक्ताफलकलापेन, निवसितः सूक्ष्मकोमलवसनैर्वीज्यमानः शिशिरबिन्दुवर्षिभिस्तालवृन्तैर्लालितः स्वादुकोमलेनाहारेण, प्रीत इव सुरभिताम्बूलेन, प्रमोदित इव मनोहारिकाकलिगीतेन, सानन्द इव विविधकरणाङ्गहारहारिणा नृत्तेन, साह्लाद इव ललितविलासिनीलोककुवलयदललोललोचनमालावलोकनेन, प्रविष्ट इव सह लोकेनावगाहितुं रतिसागरम् । तदेवं जननीजनकयोः प्रमोदसन्दोहदानार्थं सर्वेषामपि लोकानामात्मनोऽप्यधिकतरं बहिःसुखं संपादयन्नासितुं प्रवृत्तो विमलकुमारः । प्रवेशयन्ति च यथादर्श राजादेशेन नियुक्तपुरुषाः दुःखदौर्गत्योपहतं तत्र लोकं, ततः क्रियते तेषां दुःखापनोदः संपाद्यते चानन्दातिरेक इति,
SR No.022718
Book TitleUpmiti Bhav Prapancha Katha Part 06
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy