SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ૩૬૨ ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ Buनय: परोपकारार्थं परोपदेशप्रयासः ततस्तदनन्तरं यथा 'तेन सपुण्यकेन सा सद्बुद्धिस्तद्दानोपायं परिपृष्टा, तया चोक्तं-भद्र ! निर्गत्य घोषणापूर्वकं भवता दीयतामिति। ततोऽसौ तत्र राजकुले घोषयनुच्चैःशब्देन यदुत-'मदीयं भेषजत्रयं भो लोकाः ! लात लात' इत्येवं पर्यटति स्म, ततस्तस्मात्पूत्कुर्वतः केचित्तथाविधास्तुच्छप्रकृतयो गृहीतवन्तोऽन्येषां पुनर्महतां स हास्यप्रायः प्रतिभासते स्म, हीलितश्चानेकाकारम्, ततो निवेदितस्तेन सद्बुद्धवृत्तान्तः, तयाऽभिहितं-भद्र ! भवतो रोरभावं स्मरन्तः खल्वेते लोका भद्रमनादरेणावलोकयन्ति, तेन न गृह्णन्ति भवता दीयमानं, ततो यदि भद्रस्य समस्ति समस्तजनग्राहणाभिलाषः, ततोऽयं तदुपायो मामके चेतसि परिस्फुरति, यदुत-निधायेदं भेषजत्रयं विशालायां काष्ठपात्र्यां ततस्तां महाराजसदनाजिरे यत्र प्रदेशे समस्तजनाः पश्यन्ति तस्मिन् विमुच्य ततो विश्रब्धमानसोऽवतिष्ठस्व, का ते चिन्ता? यतोऽज्ञातस्वामिभावाः साधारणमेतदिति बुद्ध्या तथाकृतं सर्वेऽपि ग्रहीष्यन्ति, किं वा तेन? योकोऽपि सद्गुणः पुरुषस्तदादद्यात् ततो भविष्यति ते मनोरथपरिपूर्तिरिति, ततस्तथैव कृतं समस्तं तत्तेनेति, तथाऽयमपि जीवोऽनासादितज्ञानादिनिक्षेपपात्रः सद्बुद्धिपर्यालोचादेवेदं जानीते यदुत-न मौनमालम्बमानैः परेषां ज्ञानाद्याधानं विधातुं पार्यते, न च ज्ञानादिसंपादनं विहायान्यः परमार्थतः परोपकारः संभवति, अवाप्तसन्मार्गेण च पुरुषेण जन्मान्तरेऽपि तस्याविच्छेदनमभिलषता परोपकारकरणपरेण भवितव्यं, तस्यैव पुरुषगुणोत्कर्षाविर्भावकत्वात्, यतः परोपकारः सम्यक् क्रियमाणो धीरतामभिवर्द्धयति, दीनतामपकर्षति, उदारचित्ततां विधत्ते, आत्मम्भरितां मोचयति, चेतोवैमल्यं वितनुते, प्रभुत्वमाविर्भावयति। ततोऽसौ प्रादुर्भूतवीर्योल्लासः, प्रणष्टरजोमोहः, परोपकारकरणपरः पुरुषो जन्मान्तरेष्वप्युत्तरोत्तरक्रमेण चारुतरं सन्मार्गविशेषमासादयति, न पुनस्ततः प्रतिपततीति। तदिदमवेत्य स्वयमुपेत्यापि ज्ञानादिस्वरूपप्रकाशने यथाशक्ति प्रवर्तितव्यं, न पराभ्यर्थनमपेक्षणीयमिति। ततोऽयं जीवोऽत्र भगवन्मते वर्तमानो देशकालाद्यपेक्षयाऽपरापरस्थानेषु परिभ्रमन् महता प्रपञ्चेन कुरुते भव्येभ्यो ज्ञानदर्शनचारित्ररूपमार्गप्रतिपादनं, सेयं घोषणा विज्ञेया। ततस्तथा कथयतोऽस्मात् प्रस्तुतजीवाद्ये मन्दतरमतयस्ते तदुपदिष्टानि ज्ञानादीनि कदाचिद् गृह्णीयुः, ये पुनर्महामतयस्तेषामेष दोषपुञ्जतां प्राक्तनीमस्यानुस्मरतां हास्यप्रायः प्रतिभासते, हीलनोचितश्च तेषामयं जीवः, यत्तु न हीलयन्ति स तेषामेव गुणो, न पुनरस्येति।
SR No.022713
Book TitleUpmiti Bhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy