SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ ઉપમિતિભવપ્રપંચા કથા ભાગ-૧ | પ્રથમ પ્રસ્તાવ ૨૩૭ જીવ કંઈ જાણતો નથી આ મહાત્માનો ઉપદેશ કઈ રીતે મારા આત્માની સુખની પરંપરાનું કારણ છે તે જાણતો નથી. જો વળી, આ જીવ તદ્વિકલ થાય મિથ્યાત્વાદિ ભાવરોગથી વિકલ થાય તો કેવી રીતે આત્માના હિતને છોડીને આત્માના અહિતમાં પ્રવર્તે ? 6पनय: भेषजत्रयोपमितरत्नत्रयीमाहात्म्यम् यच्च तेन महानसनियुक्तेन पर्यचिन्ति यथा- कथं पुनरेष रोरो नीरोगः स्यात्? ततो मनसि निरूपयता तेन पुनः पर्यकल्पि-अये विद्यत एवास्य रोगनिराकरणोपायः, यतोऽस्ति मम चारु भेषजत्रितयं, तद्यथा-एकं तावद्विमलालोकं नाम परमाञ्जनं, तद् विधानेन प्रयुज्यमानं समस्तनेत्ररोगानाशयति, सूक्ष्मव्यवहितातीतभाविभावविलोकनदक्षं चक्षुः संपादयति, तथा द्वितीयं तत्त्वप्रीतिकरं नाम सत्तीर्थोदकं, तत् पुनर्विधिना स्वाद्यमानं समस्तगदवाततानवं विधत्ते, दृष्टेश्चाविपरीतार्थग्रहणचतुरतां कुरुते, विशेषतः पुनरुन्मादमुद्दलयति, तृतीयं पुनरेतदेव कन्यकोपनीतं महाकल्याणकं नाम परमानं, एतत्पुनः सम्यग् निषेव्यमानं निःशेषरोगगणं समूलकाषं कषति, तथा पुष्टिं जनयति, धृतिं वर्द्धयति, बलमुज्ज्वलयति, वर्णमुत्कर्षयति, मनःप्रसादं संपादयति, वयस्तम्भं विधत्ते, सवीर्यतां करोति, और्जित्यं प्रवणयति, किम्बहुना? अजरामरत्वमपि निःसन्देहमेतत्सन्निधापयति, तस्मादनेनौषधत्रयेण सम्यगुपक्रम्यैनं तपस्विनं व्याधिभ्यो मोचयामीति तेन मनसि सिद्धान्तः स्थापितः, तदेतत्सद्धर्माचार्योऽपि जीवगोचरं समस्तं चिन्तयत्येव, तथाहि-यदा निश्चितं तेन प्राक्प्रवृत्तिदर्शनेन यथा भव्योऽयं जीवः, केवलं प्रबलकर्मकलाऽऽकुलितचेताः सन्मार्गात्परिभ्रष्टः। तदा भवति गुरोरयमभिप्रायः यथा-कथं पुनरेषोऽस्माद्रोगस्थानीयात् कर्मजालान्मोक्ष्यते? पर्यालोचयतश्च तात्पर्यपर्याकुलेन चेतसा सुदूरमपि गत्वा पुनरेतदेव ज्ञानदर्शनचारित्ररूपत्रयं भेषजत्रयकल्पं तन्मोचनोपायः प्रतिभासते, नापरः। तत्रेह ज्ञानमञ्जनं विज्ञेयं, तदेव परिस्फुटदर्शितया विमलालोकमुच्यते, तदेव च नयनगदसन्दोहकल्पमज्ञानमुन्मूलयति, तदेव च भूतभवद्भाविभावस्वभावाविर्भावनचतुरं जीवस्य विवेकचक्षुः संपादयति। दर्शनं पुनः सत्तीर्थोदकं बोद्धव्यं, तदेव जीवादिपदार्थगोचरश्रद्धानहेतुतया तत्त्वप्रीतिकरमभिधीयते, यतश्च तदुदयसमये सर्वकर्मणामन्तःसागरोपमकोटीकोटिमात्रमवतिष्ठते, समुत्पन्नं पुनः प्रतिक्षणं तत्तानि तनूकुरुते, तेन समस्तगदतानवकारकं, कर्मणामिह रोगकल्पत्वात्, तदेव दृष्टिप्रख्यस्य ज्ञानस्य यथावस्थितार्थग्रहणचातुर्यमाधत्ते, तदेव च महोन्माददेश्यं मिथ्यात्वमुद्दलयतीति। चारित्रं पुनरत्र परमानमवगन्तव्यं, तस्यैव सदनुष्ठानं धर्मः सामायिकं विरतिरित्यादयः पर्यायाः, तदेव मोक्षलक्षणमहाकल्याणाव्यवहितकारणतया महाकल्याणकमिति गीयते, तदेव च रागादिमहाव्याधिकदम्बकं समूलघातं हन्ति, तदेव
SR No.022713
Book TitleUpmiti Bhav Prapancha Katha Part 01
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2014
Total Pages396
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy