SearchBrowseAboutContactDonate
Page Preview
Page 10
Loading...
Download File
Download File
Page Text
________________ પંડિત ચક્રવતી શ્રી રાજ સાગર ગણિ-શિષ્ય શ્રી રવિસાગર-ગણિ-વિરચિત शांबप्रद्युम्नचरित्र [ Yoती अनुवाद साथे ] ભાગ: બીજો सा: अथ विद्याधराधीश-कालसंवरमंदिरे । कल्पशाखीव मेरौ स, वर्धते वयसा शिशुः ।१। सौम्यत्वेन शशीवासौ, प्रतापेनार्यमेव च । आशैशवादपि द्वाभ्यां, गुणाभ्यां भासुरोऽभवत् ।२। प्रद्युम्नो वर्ततेऽनंगो-ऽप्यपरेषां विकारकृत् । प्रद्युम्नोऽप्यद्भुतं सांगो, रुपेणायं प्रमोदकः ।। पुरुषाणां च नारीणां, हरणाच्चित्तचक्षुषां । रूपं शैशवतस्तस्य, तस्करतामशिश्रयत् ।४। प्रयाति वयसा वृद्धि, बालकोऽसौ यथा यथा । पित्रोर्गृहेऽतुलं चैति, धनधान्यं तथा तथा ।५। शस्त्रशास्त्रकलाभ्यासं, स कुर्वन् पाठकांतिके । धवलप्रतिपच्चंद्र, इवैधत कलादिभिः ।। प्राणेभ्योऽप्यधिको मातू, राज्यसारं महीपतेः। भाग्यसौभाग्ययोग्यत्वा-न्मान्योऽभून्नगरेऽखिले॥ यौवनं पावनं प्राप, विकृतिस्थितिवर्जनात् । प्रभूतानां मनुष्याणां, स्त्रीणामाश्चर्यकारणं ।८। पुण्यलावण्यतारुण्यं, तस्य वीक्ष्य मृगीदृशः। दर्शयंति स्त्रियो नेत्र-विकारान्न तु स स्वयं ।९। अभूत्सुभटकोटीना-मधृष्यः स भुजौजसा । शौर्येण पुरतस्तस्य, न कोऽप्यमंडयद्रणं ।१०। येऽभवन् बलिनो दुष्टा, वैरिणो वैरकारिणः । सर्वेऽपि तस्य माहात्म्या-त्तन्मित्रतामशिश्रयन् ।। द्वेधापि बलगर्वेण, येऽभूवन्नतिमानिनः । स्वकीयकलया जित्वा, तेन तेऽपि वशीकृताः ।१२। स पार्श्ववर्तिनः शत्रून्, वशीकृत्याखिलानपि । तान दूरवर्तिनो जेतुं, पितुराज्ञामयाचत ।१३। तेनापि तस्य सामर्थ्य, विज्ञाय सा समर्पिता। कटकेन प्रभूतेन, ततो बली चचाल सः ।१४। शूरा वीरा रणे धीरा, येऽभवन् खेचरा नराः। निशेषानपि जित्वा तान्, विहितास्तेन ते वशे ॥ दुष्टानां खेचरेंद्राणां, देशेषु सकलेष्वपि । पितुः प्रवर्तयित्वाज्ञां, स यशस्वी समागतः ।१६। વિદ્યાધરોના અધિપતિ કાલસંવર રાજાના રાજમહેલમાં મેરૂપર્વત ઉપર રહેલા કલ્પવૃક્ષની જેમ પ્રદ્યુમ્નકુમાર દિન-પ્રતિદિન વૃદ્ધિને પામે છે. ચંદ્રની જેમ શીતલ અને સૂર્યની જેમ તેજસ્વી-પ્રતાપી
SR No.022712
Book TitleShamb Pradyumna Charitra Part 02
Original Sutra AuthorN/A
AuthorSulochanashreeji
PublisherAmitbhai S Mehta
Publication Year1990
Total Pages294
LanguageGujarati
ClassificationBook_Gujarati
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy