SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ४] मुनिमीवीरशेखरविजयनिर्मिता [ मजलादिचतुष्कमोघा-55 निराकृतम् , स्वलघुता च प्रदर्शिता, ग्रन्थस्याऽऽदरणीयता আচৰিক্তরা। . किमर्थमित्यत आह-"हियथ"ति हितार्थ हिताय= मोक्षाय हितार्थ स्वपरयोरित्याक्षिप्यते ततः स्वपरकल्याणार्थम् । तदेवं ग्रन्थकृता मङ्गलादिचतुष्कं प्रदर्शितम् । तद्यथा"खविप्रमवठिइसिरिमुहरिपासं पणमिम" इति गाांशेन परमाऽभीष्टदेवताप्रणतिलक्षणमेकान्तिकमात्यन्तिकश्च भावमङ्गलं प्रकटीकृतम् , “वोच्छ...............' इत्यादिगाथोत्तरार्धेनाऽभिधेयमभिव्यक्तीकृतम् , "अत्तसुया" इति पदेन श्रद्धानुसारिणः प्रति गुरुपर्वक्रमरूपः सम्बन्धः प्रादुष्कृतः तर्कानुमारिणः प्रति पुनरभिधेयाऽभिधायकरूपोऽनुक्तो-पि गम्यत एव । "हियत्थं" इति पदेन च प्रयोजनमपि साक्षाद् व्यञ्जितम् । तथाहि-प्रयोजनं द्विविधम् , अनन्तर-परम्परविभागात् , तद् द्विविधमपि द्वैधम् , ग्रन्थनिर्मात-पठितृप्रकारात् , तत्र ग्रन्थ - निर्मातुरनन्तरप्रयोजनं भव्यजन्तुप्रकृतग्रन्थबोधकारापणम् , प्रन्थमन्थनरूपस्वाध्यायलक्षणाभ्यन्तरतपसा कर्मनिर्जरा वा, पठितुरनन्तरप्रयोजनं प्रकृतग्रन्थज्ञानम् , द्वयोरपि परम्परप्रयोजनं तु परमश्रेयापदावाप्तिः ॥१॥ ॥ इति मङ्गलादिचतुष्कम् ॥
SR No.022676
Book TitleBhavsthiti Part 02
Original Sutra AuthorN/A
AuthorVirshekharvijay
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year1987
Total Pages56
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy