________________
१०] मुनिश्रीवीरशेखरविजयसूत्रिता [ देवभेदोत्कृष्ट
"पलियं च परिसलक्ख, चंदाणं सूरियाण पलियं तु । परिससहस्सेणऽहियं, गहाण पलिओवमं पुण्णं ॥ नक वित्ते पलियद्धं, तारयदेवाण पलियच उभागो । समि देवीणं माउं, उक्कोसं होइ पलियद्ध॥ ॥” इति ।
सम्प्रति वैमानिकदेवानां प्रकृतमाह-"सोहम्माईण" इत्यादि, 'सौधर्मसुरप्रभतीनां महाशुक्रसुरान्तानां सप्तकल्पदेवानामुत्कृष्टभवस्थितिः 'कमात्' क्रमशः "अयरा" इति पदमितः सर्वत्र सम्बध्यते ततः द्वौ' द्वौ सागरोपमौ "मर्थवशाद्वचनविपरिणाम!' इति न्यायादिह बहुवचनान्तोऽपि सागरोपमशब्दो द्विवचनान्तो गृह्यते, 'साधिको द्वो' व्याख्यानात् पल्योपमाऽसङ्घय यभागेनाऽभ्य. धिकं सागरोपमद्वयं 'सप्त' सप्त सागरोपमाः, 'अभ्यधिकाः सप्त' पल्योपमाऽसङ्ख्येयभागेना-ऽभ्यधिकाः सप्त सागरोपमाः, चकारः समुच्चयार्थः, स चोत्तरत्र 'सप्तदश' इत्यस्य प्रान्ते प्रयोज्य:, 'दश' दश सागरोपमाः 'चतुर्दश' चतुर्दश सागरोपमाः, 'सप्तदश' सप्तदश सागरोपमा ज्ञातव्याः, तथैव दर्शनात् ।
___यदुक्तं बृहत्संग्रहण्यां तथा जीवसमासे"दो साहि सत्त साहिय,दस चउदस सत्तरेव-.-" (बृहत्सं० गा.१२/जीवस० गा.२०६) इति।
एवं प्रज्ञापनादिग्रन्थेष्वपि ।
ततश्चायमर्थः-सौधर्मसुरस्य द्वे (२) सागरोपमे, ईशानसुरस्य पल्योपमासङ्ख्यभागाधिके द्वे (२) सागरोपमे, सनरकुमारस्य सप्त (७) सागरोपमाणि, माहेन्द्रसुरस्य पल्योपमासङ्ख्य भागाभ्यधिकानि सप्त (5) सागरोपमाणि, ब्रह्मलोकसुरस्य दश (५०) सागरोपमाणि, लान्तकसुरस्य चतुर्दश (१४) सागरोपमाणि, महाशुनसुरस्य सप्तदश (१७) सागरोपमाण्युत्कृष्टभवस्थितिभवति ।