SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ १आदिपर्व-५सर्गः] बालभारतम् । रे' भूभुजो यदि भुजोल्लसितं न किंचि__ त्तत्कि स्पृहाजनि सुतां प्रति पार्षतस्य । जज्ञे स्पृहाथ कथमागतमागतं वा प्राणाधिके धनुषि तत्कथमाग्रहोऽभूत् ॥ ९८ ॥ आरम्भमेतमयथाबलमाकलय्य ___ युष्मान्न कोऽपि निषिषेध मिषेण मन्त्री । चापाधिरोपणविधावपि निष्फलानां वक्षोऽपि न स्फुटितमद्य भुजाभृतां वः ॥ ९९॥ कान्तापणेऽत्र गुरुभीष्महृदि पैव कृष्णस्तु षोडशसहस्रवधूवशात्मा । रे कौरवा धृतभुजा मदगौरवाणां किं वो मनःशमगुरुर्धनुरेतदेव ॥ १० ॥ रे कर्ण कुण्डलित एष न किं त्वयापि चापः पृथुप्रथितदोर्युगपाशभाजा । किं दुर्यशःकुवलयेन तवावतंस श्रद्धा बभूव भुवनावधि शाश्वतेन ॥ १०१ ॥ विप्रोऽप्ययं द्रुतमहीनमहीनकीर्ति लुण्ठाकशक्तिरपसादगुरुप्रसादः । वेध्यं प्रपातयति पश्यत रे नरेन्द्राः ___ कीर्ति स्मरन्मनसि गौररुचं न कृष्णाम् ॥ इत्यैब्दशब्दजयशालिनि तस्य वाक्ये ऽनध्यायमेकमिव चेतसि चिन्तयत्सु । क्षत्रद्विजेषु निखिलेष्वपि तेषु सद्यो मौनावलम्बिनि नमद्वदनाम्बुजेषु ॥ १०३॥ उग्रस्वधैर्यगजगार्जिनदं कुमारी चेतोमयूरनवनृत्तपयोदनादम् । १. भूमीभुजः' क. २. 'कुवलयं नीलोत्पलमिति राजनिघण्टुः' इति ग-पुस्तकटिप्पणी. ३. अब्दो मेघः.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy