SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ५२ काव्यमाला । नत्वा नृपः कृपकृपीपतिभीष्ममुख्याश्री वारणावतपुराय ततः प्रतस्थे ॥ २७ ॥ पौरान्विसृज्य सकलान्स कलाभिरामः शिक्षाप्रदानविदुरं विदुरं च नत्वा । कुन्तीयुतः सह सहोदरमण्डलेन तत्पत्तनं विदितहर्षपदं प्रपेदे ॥ २८ ॥ तन्नागसाह्वयमभूदपभूति तस्मिं स्तद्वारणावतपुरं त्वतिभूति याते । यन्मुञ्चते दिनकरः किल तत्र रात्रि दीव्यति विभुर्दिवसो हि तत्र ॥ २९ ॥ 9 कूटाशयेन सचिवेन पुरोचनेन प्राक्प्रेषितेन रिपुभिर्धृतराष्ट्रपुत्रैः । निर्मार्पितं जतुगृहं दहनैकयोग्यं नीतश्छलेन दशमेऽह्नि पृथातनूजः ॥ ३० ॥ तन्मुञ्जसर्जरसयावकवंशकाश सर्पिःशणप्रभृतिभिर्द्रविणैः प्रक्लृप्तम् । आग्नेयमेतदिति स विभाव्य गन्धै धर्माङ्गभूरिदमभाषत भीममुख्यान् ॥ ३१ ॥ शङ्कयं सदा हुतवहाच्च विषाच्च दिक्षु युष्माकमस्त्यविदितो न च कोऽपि पन्थाः । शिक्षामिमामदित मे विदुरस्तदानी मागच्छतः पथि वचोभिरमूढगूढैः ॥ ३२ ॥ शिक्षेयमय विदिता सदनेऽत्र नेत्रमार्ग गते हुतवहद्वेविणैकक्लृप्ते । मन्ये पुरोचनममुं च सुयोधनार्थे विश्वासघातिनमिति प्रथितप्रपञ्चम् ॥ ३३ ॥ १. 'प्रेस्तेिन' ख. २. 'द्रविणावक्लृप्ते' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy