SearchBrowseAboutContactDonate
Page Preview
Page 504
Loading...
Download File
Download File
Page Text
________________ कविप्रशस्तिः ] बालभारतम् । कविप्रशस्तिः । किंचित्संचलितेऽपि वस्तुनि भृशं यत्संभवान्मन्महे विश्वं यन्मयमीश्वरादिमयतास्पष्टप्रमाणेप्सितम् । संसारप्रसरः परस्तनुमतां यस्यानुरोधेषु य त्संरोधेषु शिवं स यच्छतु सतां श्रीचारुतां मारुतः ॥ १ ॥ देशे सत्तीर्थसार्थत्रुरुदुरिते श्रीहनुमत्तनूजोत्पत्तौ तेन प्रतेने जगदिव महास्थानमस्थानमाधेः । स्वाख्याङ्कज्ञातिनाम्ना मरकतमणिका मिश्रमुक्ताफलस्र भूषावद्भूमृगाक्ष्या द्विजपटलमिहास्थापि साकं वणिग्भिः ॥ २ ॥ श्रीमद्वायटनाम्नि सारसुकृतश्रीधानि तस्मिन्महा स्थाने मानिनि दानमानसरसास्ते वायटीया द्विजाः । स्तोमस्तोमसमुत्थधूमनिवहैर्मालिन्यमालम्बया मासु वणिजो जिनाचनघनोद्यद्धूपधूमोत्करैः ॥ ३ ॥ ध्वजमिषभुजमूलस्थूलकुम्भैकवक्षो रुहमहह महीयोधःकृतस्फाटिकाद्रि । विलसति वणिजां सत्कीर्तिधमर्धिनारी · ४८५ श्वरवपुरिव तत्र श्रीमहावीरचैत्यम् ॥ ४ ॥ श्रीश्वेताम्बरमौलिमौक्तिकमणिस्तस्मिजिनेन्द्रालये ऽधिष्ठाता जिनदत्तसूरिरजनि ज्ञानैकवैज्ञानिकः । श्रेयस्तुङ्गयदङ्गसंगमसमुद्भूतप्रभूतस्फुर त्पुण्यैः पश्य गुणैर्गतं दिवि सितच्छायैरुडुच्छद्मना ॥ ९ ॥ तत्पट्टोर्वीघरवरमणिद्यमणिद्योत्तजैत्रै स्तेजः पुत्रैः किमपि ककुभोऽपूरि रासिल्लसूरिः । यस्य व्योमच्छलकलशभृत्कीर्तिधारापयोभिगोभिर्भुक्ता घनजनमनःकानने मोहवल्लयः ॥ ६ ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy