________________
४०२
काव्यमाला। सौप्तिकपर्व ।
प्रथमः सर्गः । इतश्च व्योममानेन वर्धमाने वटे स्थिताः । निशि द्रौण्यादयो निद्रामद्रौणी पुनरापतुः ॥ १ ॥ अनिद्राणः स्वयं द्रौणिर्दागरिद्रोहचिन्तया । चिरं बभ्राम कान्तारचक्रे कौम्भिकचक्रवत् ॥ २॥ एष वृक्षशिखासुप्तं घूकेनैकेन केनचित् । निगृह्यमाणं साक्रन्दं काकलोकमलोकत ॥ ३ ॥ समिति द्विषतो जानन्दुर्जयानेकको बहून् । अथायं तद्वधोपायं तद्वदेव व्यचिन्तयत् ॥ ४ ॥ रयाञ्जागरयित्वा तु सोऽयं हार्दिक्यमातुलौ । सौप्तिकेन द्विषः सुप्तान्हन्मीत्यवददुन्मदः ॥ ५ ॥ कृपोऽप्यूचे द्विषः सुप्तान्गुप्तान कवचायुधैः । निघ्ननिर्विघ्न एव स्यान्नरकस्यातिथिर्नरः ॥ ६ ॥ तत्क्षत्रधर्ममाश्रित्य कर्मसाक्षिणि साक्षिणि । अरातीन्पातयिष्यामो यास्यामो वैरपारताम् ॥ ७ ॥ श्रमविद्रावणी निद्रामेव सेवामहेऽधुना । आपृच्छय धृतराष्ट्रादीन्यामः प्रातररातिपान् ॥ ८ ॥ कृत्येषु हि स्फुरद्वृद्धाङ्कुशः कुशलवान्पुमान् । इह वैधHदृष्टान्तः क्षितिकान्तः सुयोधनः ॥ ९ ॥ अथ क्रोधप्रबोधातिव्यक्तरक्तविलोचनः । निश्वसन्विश्वरौद्रोक्तिरूचे शारद्वतीसुतः ॥ १० ॥ भीष्मभूरिश्रवस्तातकर्णभूपानधर्मतः । तेषां हतवतां हन्त हतौ को धर्ममीक्षते ॥ ११ ॥ स्मरतः समरोत्सङ्गे तालघातमधर्मतः ।
मम श्रमश्च निद्रा च कुतोऽस्तु भवतोरिव ॥ १२ ॥ १. 'ऽथ' ख-ग. २. 'तिषु' ख-ग. ३. 'तथा तात' ख-ग.
-