________________
९ शल्यपर्व - १ सर्गः ]
बालभारतम् ।
अभ्युत्थानमथो तेनुः कृष्णकुन्तीसुतादयः ।
चकोरा इव चन्द्रस्य रेवतीहृदयेशितुः ॥ १०१ ॥ स्यमन्तपञ्चके युद्धं सिद्धक्षेत्रे विभाति मे । इति दुर्योधनेनोक्ते सर्वे सत्यसुतादयः ॥ १०२ ॥
दक्षिणेन सरस्वत्यास्तीर्थे शयननामनि ।
३९५
गत्वा सीरिणमावृत्य रणं द्रष्टुमुपाविशत् ॥ १०३ ॥ ( युग्मम् ) आपत्य विरथावेव भीमदुर्योधनाविह ।
अतिष्ठतां गदापाणी मिथोगर्जिततर्जितौ ॥ १०४ ॥ सुरसिद्धर्षिगन्धर्वैः कुतुकाद्द्रतमागतैः ।
तौ दृश्यमानौ समरे समानौ चेलतुस्ततः ॥ १०९ ॥ उद्गारैरिव पीतारितेजसोर्गदयोर्मिथः । तौ दाघातकीलाभिर्भासुरावभिजग्मतुः ॥ १०६ ॥ तर्जने वर्जने स्थाने चलने वने भ्रमौ । तौ जातौ चित्रचारीभिः स्वर्नारीनयनोत्सव ॥ १०७ ॥ वामदक्षिणगोमूत्रप्रभृतीन्मण्डलक्रमान् । तयोः क्रमोद्धतो रेणुरेवाचख्यौ दिवौकसाम् ॥ १०८ ॥ दुर्योधनेन गदया भीमः पार्श्वेऽतिताडितः । शक्रेणाशनिना तार्क्ष्य इव नैव व्यकम्पत ॥ १०९ ॥ भ्रामयित्वा गदां वेगादेष दर्शितदिमाम् । उच्चैर्व्यमुञ्चत्सामीरिस्त्वत्सुताय द्रुतोत्लुतः ॥ ११० ॥ त्वत्सूनुर्वञ्चयित्वैनां तं मूर्ध्नि गदयार्दयत् । दन्तिदन्ता हतशिरा नायं गिरिरिवाचलत् ॥ १११ ॥ गदा भीमेन मुक्ताथ क्षितिनाथेन वञ्चिता ।
पपात कम्पितक्षोणिर्भ्राम्यदब्धिकुलाचला ॥ ११२ ॥
१. 'अथाभ्युत्थानमातेनुः' ख ग २. 'महाघात' ख ग ३. 'तक्ष्ण' क. ४. 'भ्र मिम्' ख ग ५. 'क्षोणिभ्राम्यदद्रि' ख- ग.