SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ ३७४ काव्यमाला । सह पाण्डुचमूदुःखैः सह द्रौणिमनोरथैः । सह विश्वोपतापैश्च ततोऽस्त्रं तद्ययौ शमम् ॥ १७९ ॥ अस्त्रं पुनर्विमुञ्चेति द्रौणिर्दुर्योधनेरितः । द्विः प्रयोज्यं न दिव्यास्त्रमित्युक्त्वाधावदुद्धतः ॥ १७६ ॥ वज्रसारैः शरासारैर्जित्वा सात्यकिपार्षतौ । भूपं सुदर्शनं निन्ये पौरवं यमपौरताम् || १७७ || त्रस्यन्तीं धर्मजचमूमनुधावन्नथ कुधा । रुद्ध धनंजयेनात्रमाग्नेयं द्रौणिरक्षिपत् ॥ १७८ ॥ अस्त्रस्य तस्य कीलाभिः लिप्यमाणाश्वमूर्भटाः । कालकिंकरजिह्वाभिर्दह्यमाना इवाबभुः ॥ १७९ ॥ धूमोर्मिमन्दमार्तण्डदृश्यतारकमण्डलम् । प्रदह्याक्षौहिणीं मम तदस्त्रं कृष्णमाद्रवत् ॥ १८० ॥ तत्कला पटलालीढौ कृष्णौ प्रधनमूर्धनि । तदा गैर्भितनीलाश्महेमताडङ्कतां गतौ ॥ १८९ ॥ अथ पार्थो बभौ क्षिप्तब्रह्मास्त्रशमितानलः । तत्कालदहनोत्तीर्णसुवर्णवदतिद्युतिः ॥ १८२ ॥ अपाण्डवामकृत्वापि महीं शान्तेऽत्रपावके । दिव्यास्त्राणि तदा निन्दन्द्रौणिर्व्यासमलोकत ॥ ९८३ ॥ रथं मुक्त्वा मुनिं नत्वा ततोऽपृच्छत्कृपीसुतः । विफलत्वं किमस्त्राणि कृष्णयोरगमन्मम ॥ १८४ ॥ अथोवाच मुनिर्वत्स विद्धि बीभत्सु केशवैौ । निमित्तमानवावेतौ नरनारायणावृषी ॥ १८९ ॥ तपःषष्टिसहस्राब्दी तत्वा नारायणो मुनिः । लिङ्गार्चनतः शर्व सेवित्वा तत्समोऽभवत् ॥ १८६ ॥ १. ‘न्नदन्नुषा' ख. २. 'चयाः' ख. ३. 'गर्भग' ख. ४. ' व्रतात्सर्वे सेवित्वा न समो' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy