SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २५१ ५उद्योगपर्व-१सर्गः] बालभारतम् । उद्योगपर्व। __ प्रथमः सर्गः । संसारवारिधिद्वीपं द्वैपायनमुनिर्मुदे । मध्यस्थोऽप्याश्रिताशास्त्रैर्यः प्रीणात्यमृतोपमैः ॥ १ ॥ अथायमत्र मन्त्राय राजा सह सहोदरैः । आससाद सदः सार्ध सीरिश्रीजानिसृञ्जयैः ॥ २ ॥ अष्टभिर्विष्टपाधीशैरेभिरुत्कीर्तिसिन्धुभिः । सभेयं शुशुभे तुङ्गैरचलेव कुलाचलैः ॥ ३ ॥ दन्तांशुदम्भाद्दधतीं सुधाविजयजं यशः । ज्ञातनीतिपथो वाचमथोवाच तपःसुतः ॥ ४ ॥ ज्ञातनिःशेषशास्त्रस्य व्याहरे यत्पुरो हरेः ।। रत्नाचलस्य तत्काचलवढौकनिकायते ॥ ५ ॥ प्रीत्यैव वच्मि वा किंचित्पुरोऽपि त्रिजगद्गुरोः । स्नानं तन्या नीमूर्ध्नः शंभोरम्भोमयं न कः ॥ ६॥ बन्धुवर्गेण न समं समरो मम रोचते । जये पराजयेऽपि स्यान्नश्वरं कुलमैन्दवम् ॥ ७ ॥ संप्रहारः सहामीभिः स्वकैः व कुशलाय नः । खैरेव बिम्बितैः साकं रणः केशरिणामिव ॥ ८ ॥ स्वीया हन्त न हन्तव्यास्तेऽपराधपरा अपि । कश्छिन्ते रभसोत्कीर्णशं नखमपि स्वकम् ॥ ९॥ जितेषु तेष्वकीर्तिर्या सास्मानपि हि लिम्पति । लिप्तेऽङ्गे कर्दमैबिम्बमलिप्तमपि लिप्तवत् ॥ १० ॥ नीतिद्विषापि सार्ध न योद्धव्यं कुसुमैरपि । तत्कि युध्यामहे साधं बन्धुभिर्दुर्धरायुधाः ॥ ११ ॥ १. 'अथारिमथ मन्त्राय' ख; 'अथारिमन्त्रमाधाय' ग. २,३. 'ज्ञान' क. ४. 'व्याहरेत' क. ५. 'दशं' क.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy