SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ ३वनपर्व-२सर्गः] बालभारतम् । प्राचीमञ्चति चण्डरोचिषि चिरं प्राप्ते प्रतीची प्रति प्रातः शीतकरे करैरुभयतो गाङ्गेयभङ्गोज्वलः । हैमं कुण्डलमेकतः कलयतः कापालमप्यन्यतो भूतेशस्य वधूविभक्तवपुषः सैष श्रियं पुष्यति ॥ ३१ ॥ त्वद्वन्धुवन्धुरतपोवशदर्शितात्मा जामातृसंगमसुखानि चिरादेवाप । अभ्यापतन्तमयमित्यधुना भवन्तं लोलाभिराह्वयति शाखिशिखाङ्गुलीभिः ॥ ३२ ॥ इति लोमशोक्तिभिरयं नृपतिः कुतुकी विलोकयितुमेनमगम् । अकृत द्रुतामपि गतिं बत यां श्रदधायि सापि वरलापतिभिः ॥ ३३ ॥ पुरश्चरद्भीमपदान्तघातसमीकृतोरुस्थेपुटोपलेन । पथारुरोहाथ धराधरं तं धराधवोऽन्यैरनुगम्यमानः ॥ ३४ ॥ गन्धमादनवनान्तयायिनो वायुवर्धितरजोऽम्बुवृष्टिजम् । घ्नन्ति विघ्नर्मंगकुञ्जपुञ्जिता ध्यानशुद्धशुचिचेतसः स्म ते ॥ ३५ ॥ आकुले द्विजकुले पथि वध्वां पातभाजि नकुलेन धृतायाम् । अस्मरच्च मनसाथ मरुद्भूराजगाम च घटोत्कचवीरः ॥ ३६ ॥ व्योमाङ्गणाग्रसरलोमशदर्शितेन ___ मार्गेण मेघपरिरब्धतडिल्लताभाः । ऊढा घटोत्कचचमूसुभटोच्चयेन शैलेन्द्रमूर्धनि ययुर्बदरीनं ते ॥ ३७ ॥ पतिभ्यो निर्विशेषायाः कृष्णायाः सुखदुःखयोः । सत्याः स्नानेन गङ्गा खं तत्र पुण्यममन्यत ॥ ३८ ॥ कृष्णा तत्र कृतानल्पाकल्पा बिन्दुसरोम्बुजैः । मुदा मुकुरयामास कैलासस्य गिरेः शिला ॥ ३९ ॥ १. परं' ख. २. 'दवाप्य' ख. ३. 'स्वपुटो' ख-ग. ४. 'मथ' ख-ग. ३. 'वनान्तम् ख.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy