________________
३वनपर्व-२सर्गः] बालभारतम् ।
१८९ जानन्तु मुग्धहृदया इति किं नु वेद्मि
ताहक्तपोधनतपःप्रभवं प्रभावम् ॥ १७ ॥ बहुकासारः सारः सारस्वतवारिभिर्महानेषः । निजकान्तारं तारं तारं वहति व्रज मरुताम् ॥ १८ ॥ उत्तीर्य तूर्णतरमङ्कतटात्तटिन्यः __ पेतुः सुता इव गिरेरिह पादपीठे । तल्लब्धरत्नचयभूषणभारभाजो
गच्छन्ति विस्तृतरसादपि तं पयोधिम् ॥ १९ ॥ विश्वकशत्रुशरणागतमन्धकारं
संरक्ष्य भानुमति वीक्षणभाजि शैलः । भ्रान्त्वा दिनं गतवतीह गुहागृहान्त.
राकृष्य मुञ्चति निशि ज्वलितौषधीकः ॥ २० ॥ भात्येष मेरुरुचिरोऽपि नमेरुशोभी
कृत्स्नामिलामपि वहन्नेनिलाभिरामः । सव्यालबालमपि चन्दनपादपानां
नव्यालवालमभितो वहते समूहम् ॥ २१ ॥ वैनस्यान्तर्लसत्पत्ररतिभूतरुचारुणः । सुरौघः स्त्रीसखो रत्नैरतिभूतरुचारुणः ॥ २२ ॥ वन्येभप्रकरकराग्रभग्नवंश
प्राग्भारप्रभवनवीनमौक्तिकोऽयम् । कान्तारप्रसवपरागपिङ्गमूर्ति
नक्षत्रावलिवृतमेरुवद्विभाति ॥ २३ ॥ भित्त्वा भित्त्वा कुवलयदलश्यामभासः सशब्दा
नब्दानस्मिन्गुरुतरशिलासङ्गसंपीडिताङ्गः । १. नमेरुभिक्षः. २. अनिलेन वायुना. ३. नव्यमालवालम्, इति विरोधपरिहारः; नन्समासेन विरोधः. ४. 'खेलत्यन्तर्वनस्यास्मिन्' ख-ग.५. 'श्रीसखो' ग; 'श्रीमुखो' ख. ६. 'स्तस्मिंस्तस्मिन्' ख. ७. 'तरु' ख.