SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ काव्यमाला। विस्तार्य बाहुयुगमित्यगमन्निकाम कोपारुणोरुनयनः पवनाङ्गजन्मा ॥ ९८ ॥ एवं किरारकदम्बकमाम्बिकेय___ सेनासु दुर्धरधनुर्धरधैर्यरोधम् । युद्धे करोम्यहमिति प्रववर्ष गच्छ विष्वक्शतक्रतुसुतः सिकतावितानम् ॥ ९९ ॥आच्छिद्य मेमुरदुरोदरदम्भजृम्भ___ माणप्रभावबलिनं युधि सौबलेयम् । स्यादुक्तमस्य विशदत्वमिति स्वमास्यं लिप्त्वा मषीभिरगमत्सहदेववीरः ॥ १०० ॥ रङ्गत्यरातिनिकरे शिरमङ्गमङ्ग शृङ्गारितं भुजभृतां निभृतं न भाति । इत्यङ्गनाजनमनोरमरूपरोचि धूलीविलेपशबलो नकुलो जगाम ॥ १०१ ।। इत्यातुरं विशतु हस्तिपुरं पुरंध्री वर्गो दिनैः कतिपयैरपि कौरवाणाम् । इत्याललाप बहुशापमबद्धकेशा सा पाण्डुपुत्रसुदती रुदती प्रवासे ॥ १०२ ॥ अल्पैरहोभिरिति कौरवकैरवाक्ष्यो गीतानि बिभ्रतु शपन्निति कोपशोणः । - धौम्यो जगौ परिपतन्पथि याम्यरौद्र सामानि नैर्ऋतदिगुद्धृतदर्भपाणिः ॥ १०३ ॥ उत्पाताः शतशोऽभवन्पुरि समागम्य स्वयं नारदो वंशोच्छेदमथादिशत्कुरुपतेश्चिन्ताज्वलच्चेतसः । तद्भीत्यैव समागतेषु शरणं दुर्योधनाद्येषु च द्रोणो वीररसैकवाधिरभयं दत्त्वासृजन्मङ्गलम् ॥ १०४ ॥ १. 'स्याद्युक्त' ग.
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy