SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ २ सभापर्व -२ सर्गः ] बालभारतम् । द्वितीयः सर्गः । शुद्धज्ञानसुधाम्भोधिधनं द्वैपायनं स्तुवे । यो वर्षद्विश्वहर्षाय श्रीभारतसुधारसैः ॥ १ ॥ चतुरङ्गचमूचारभारभुग्नावनिर्व्यधात् । भीमानुजोऽथ कौबेरीदिग्जयाय प्रयाणकम् ॥ २ ॥ स्फाराहंफार हुंकार झंकारिनभसोऽलसन् । अमित्र श्रीसमाकृष्टिमान्त्रिका इव पत्तयः ॥ ३ ॥ मुखरा हयषाभिः पताकाहस्तशिक्षया । रथाः स्वरथिनां कीर्तीर्नर्तयन्त इवाचलन् ॥ ४ ॥ स्वगतिस्पर्धिनीं छायामपि च्छादयितुं रुषा । पिधानाय रवेर्धूतधूलयो हरयोsस्फुरन् ॥ १ ॥ वलक्षाः कलुषीकर्तुं द्विषत्कीर्तिपटीरिव । सस्रुर्मदमषीधारावर्षिणः करिणां गणाः ॥ ६ ॥ जयश्रीवल्लिबीजानां राजयो लाजमुष्टयः । जिष्णौ घनरसासिते क्षिप्ताः पुरपुरंधिभिः ॥ ७ ॥ कुणिन्दविषयप्रत्तावासस्तदनु वासविः । अणारपौरुषो भूरीजिगाय जगतीपतीन् ॥ ८ ॥ सुमण्डलादिभूमीन्द्रशौर्यनिद्रानिशाग़मः । सप्तद्वीपजयी जिष्णुर्ययौ प्राग्ज्योतिषं ततः ॥ ९ ॥ आलानितचमूनागमदस्यन्दकदम्बकैः । तत्रातिसुरभीचक्रे कृष्णः कृष्णागुरुगुमान् ॥ १० ॥ वृतश्चीनैः किरातौघैः सागरानूपवासिभिः । तत्र शक्रसुहृद्राजा भगदत्तो युधं व्यधात् ॥ ११ ॥ आरूढभगदत्तस्य सुप्रतीकस्य दन्तिनः । पपुः शिलीमुखाः पार्थकरोम्भोजत्यैजो मदम् ॥ १२ ॥ १. 'कुलिन्द' ग. २. 'जिष्णुः ' क ख ३. क्विप्प्रत्ययान्तः. १३९
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy