________________
११२
काव्यमाला |
व्रजति रजनिरेषा कामधुक्कामिनीनामुदयति दिनमेतद्विप्रयोगप्रयोगः । त्यजत गिति मानं मानिनीनामिवेत्थं
दिशि विदिशि दिनेशोद्दामगीस्ताम्रचूडः || ७ || कथमपि कृतनिद्रा मानिनी स्वप्नदृष्ट प्रियमुपनतमग्रे ताडयन्ती प्रबुद्धा | अतितिषु दयालुः लिप्यति स्म स्मराती शठमपि शयनान्ते गुप्तमागत्य सुप्तम् ॥ ८ ॥ प्रियतममवलोक्य स्वप्नमोहे सपत्न्या
सह कलितविलासं मानिनी नष्टनिद्रा । स्फुरति च पुरतोऽस्मिंस्तंद्रमेण क्रमेण
स्फटिकभुवि जघान स्वं प्रतिच्छन्दमेव ॥ ९ ॥ चिरमुपचितमानं यामिनीं जागरित्वा
क्षणमथ मृदुनिद्रौ रागिणावेकतल्पे | स्वयमुपनयमाप्य स्वप्नतोऽन्योन्यमेव
व्यवसितपरिरम्भ भेजतुः कां न केलिम् ॥ १० ॥
अजनि युगसहस्रं तत्किमद्यापि भासा - मुदयति दयितोऽस्यां नेति जातप्रकोपैः ।
रथचरणविहंगैर्वीक्षितेवारुणाभि
श्विरमभजत दृग्भिः शोणतां वासवाशा ॥ ११ ॥
अपरशिखरचूलासिन्धुसंबन्धिनीभिः
किमपि कुमुदिनीभिर्द्राक्परीरम्भलुब्धे । लसति शशिनि कान्ते कौमुदी कोपनेवा
तलभत काय शोणिमानं च किंचित् ॥ १२ ॥
१. 'झटिति' ग. २. 'हग्ग्राहेण' क. ३. 'कान्तकेलिं' क ख; 'कामकेलिं' इति क- पुस्तक टिप्पणीभूतः पाठः.