SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ काव्यमाला । समजनि दयितानां बाढमुत्साहहेतोः __ सरभसरतलीलानिर्दयानां तदेव ॥ ७७ ॥ क्षणमुपचितचञ्चच्चाटुमन्त्रोक्तिभाजो रभसभरनिरुद्धश्वासयोराशु यूनोः । मनसि रतमनन्यध्यायिनि ध्यायमानं समजनि सममेव स्निग्धयोः सुप्रसन्नम् ॥ ७८ ॥ यूनाममन्दपरिरम्भभरै रतान्ते कामोऽपि मूर्छित इव क्षणमेकमस्थात् । उज्जीवितः पुनरपि क्रमजायमान मन्दातिशीतसुरभिश्वसितानिलेन ॥ ७९ ॥ आलिङ्गनाविघटनैकमना रतान्ते नामुच्यत प्रमदया हृदयाधिनाथः । तस्या मुखं च सविशेषरसानुभावं पश्यन्नवाप स पुनर्नवतामतीव ॥ ८० ॥ . हृष्टस्मराणि भृशमुत्सुकतागृहीत वासोविपर्ययविलोकमृदुस्मितानि । व्रीडाविकुञ्चितविलोलविलोचनानि यूनां रतान्तललितानि महोत्सवोऽभूत् ॥ ८१ ॥ सुभ्रुवामवयवेषु नखाङ्का भूषणं विरहिताभरणेषु । . तद्वपुर्विरहितेषु तदर्थी म्लानिराभरणमाभरणेषु ॥ ८२ ॥ वीक्ष्य तादृशरसद्विगुणश्रीभासुराणि वदनानि युवानः। . निन्यिरे मुहुरपि स्मरलोलालीलयैव दयिताः शयनीयम् ॥ ८३ ॥ उद्यत्तन्द्र इवोपभुक्तरजनीखेदेन चन्द्रोऽप्ययं डिण्डीरप्रतिवीरमूर्तिरुचितः स्रस्यत्कराडम्बरः । अस्तक्ष्माधरमस्तकस्थितिमतिर्मन्ये चचार स्फुर त्पारावारतरङ्गरङ्गितमरुत्पूराय दूरादपि ॥ ८४ ॥ इति श्रीजिनदत्तसूरिशिष्यश्रीमदमरचन्द्रसूरिविरचिते श्रीबालभारतनाम्नि महाकाव्ये वीराङ्के आदिपर्वणि सुरापानसुरतवर्णनो नाम दशमः सर्गः ॥
SR No.022658
Book TitleBalabharata
Original Sutra AuthorN/A
AuthorShivdatta Pt., Kashinath Pandurang Parab
PublisherTukaram Javaji
Publication Year1894
Total Pages512
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy